SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ प्रस्तावः] नमस्कारे नन्दन-कथा । प्रामोत्युच्छीर्षके शस्वदेकैकं व्यन्तरात् फलम् ॥१८॥ तर्पयति राज्ञे स तुष्टेन तेन पूजितः।। अकालमृत्युविश्रान्त्या कारितश्चोत्सवः पुरि ॥ १९ ॥ इति निशम्य महोत्सवकारणं नृपसुतो निजगाद जगत्यहो। इह भवेऽपि विपादितविप्लवं स्फुरति पञ्चनमस्कृतिवैभवम् ॥ २० ॥ ततः पञ्चनमस्कारं कुमारो मुनिसन्निधौ । मन्त्रवद्विधिनाऽधीत्य त्रिसन्ध्यं नित्यमस्मरत् ॥ २१ ॥ अथागत्य पुमानेको राजपुत्रं व्यजिज्ञपत् । अस्ति चेटकमन्त्रो मे दत्तः सिद्धेन केनचित् ॥ २२॥ तस्य षण्मासपर्यन्तां पूर्वसेवामहं व्यधाम् । अधुनोत्तरसेवा तु कर्तव्यामेव तिष्ठति (?) ॥ २३ ॥ सा सर्वलक्षणोपेतं विना नोत्तरसाधकम् । तादृशस्तु त्वमेवातो मन्त्रसिद्धौ सखा भव ॥ २४ ॥ परोपरोधप्राधान्यात्प्रतिपेदे स तद्वचः। महान्तो हि प्रकृत्यैव परोपकृतिकर्मठाः ॥२५॥ ततः कृष्णचतुर्दश्यां रात्रौ राजमुतान्वितः। पूजोपकरणं बिभ्रच्छ्मशानं साधको ययौ ॥ २६ ॥ यत्कचिच्छरदर्झौघशुभ्राद्भास्थिदन्तुरम् । कचिच्चितानलज्वालाजालपल्लविताम्बरम् ॥ २७ ॥ कचित्कलितकङ्कालकालवेतालभीषणम् । कचित्क्रीडद्गताशङ्कशाकिनीकुलसङ्कुलम् ॥ २८ ॥ कचिद्राक्षसदुर्वीक्षं कचिद्भूतभयङ्करम् । कचित्सघूकफूत्कारं कचिद् घोरशिवारवम् ॥ २९ ॥ कृत्वाऽस्मिन्मण्डलं पुष्पदीपनैवेद्यमण्डितम् । तत्राग्निकुण्डे मन्त्रेण साधकोऽक्षिपदाहुतीः ॥ ३०॥ कुमारोऽस्थानमस्कारं स्मरन्नुत्तरसाधकः । तत्र सन्त्रासनप्रह्वा बह्वयोऽभूवन्बिभीषिकाः ॥ ३१॥ साहहासस्ततोऽधावत् साधकं प्रति राक्षसः । जल्पन्नित्यसिना शीर्ष पद्मलावं लुनामि ते ॥ ३२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy