________________
४६४
कुमारपाल प्रतिबोधे
द्राक्कुमारोऽन्तरे भूत्वा को मय्युत्तरसाधके । वाञ्च्छत्येष वधं कर्तुं साधकस्येत्यभाषत ॥ ३३ ॥ अवोचद्राक्षसो व्योम्नि दिव्यस्त्री दर्शिता मया । तां दृष्ट्वाऽगादसौ क्षौभं वध्यस्तेनैष दोषवान् ॥ ३४ ॥ साधकस्यास्य योऽनर्थं चेतसापि विचिन्तयेत् । हस्तग्राहं गृहीत्वा तं निग्रहीष्य इति ब्रुवन् ॥ ३५ ॥ कुमारो राक्षसाभ्यर्ण प्रचचाल यथा यथा । प्रतस्थे द्राक्पदैः पश्चाद्राक्षसोऽपि तथा तथा ॥ ३६ ॥ कुमारोऽवोचदूर्द्धस्त्वं तिष्ठ किं यासि चेद्भटः । अवदद्राक्षसो भद्र ! मन्त्रं स्मरति यं भवान् ॥ ३७ ॥ तत्प्रभावान्न ते तेजः सोढुमग्नेरिव क्षमे । तदुपैमि पदैः पश्चात्सिद्धस्तेऽस्मि विमुञ्च माम् ॥ ३८ ॥ दुस्साधमपि तेऽभीष्टं साधयिष्यामि चिन्तितम् । सिध्यत्वं साधकस्येति निजगाद् नृपात्मजः ॥ ३९ ॥ राक्षसोऽवदेतस्य तादृशी नास्ति योग्यता । यया स्यादीदृशी सिद्धिः किंत्वेषोऽपि त्वदाश्रितः ॥ ४० ॥ लप्स्यतेऽभीप्सितं सर्वमित्युक्त्वाऽसौ तिरोदधे । तं दृष्ट्वा साधकः सर्वविरतो मन्त्रसाधनात् ॥ ४१ ॥ कुमारः साधकेनोक्तः सिद्धो मे चेटको ध्रुवम् 1 येनादिष्टं प्रभुः सेव्यो विश्वचिन्तामणिर्भवान् ॥ ४२ ॥ कुमारः स्वगृहं गत्वा साधकं मुनिसन्निधौ । अध्यापयन्नमस्कारं स तं सततमस्मरत् ॥ ४३ ॥ चेटकस्य प्रभावेन कुमारः साधकान्वितः । भ्राम्यन् व्योम्ना जगद्रष्टुं कदाचिन्मिथिलामगात् ॥ ४४ ॥ या स्फाटिकाधो भवनावतंसैर्हिरण्मयः सप्तभिराप्त दीप्तिः । जहेऽन्तरिक्षस्थविमानगजर्व्वस्य (?) गीर्वाणपुरस्य शोभां ॥ ४५ ॥ मध्ये वनं तत्र पवित्रमासीच्चैत्यं नमेर्यन्मणिपुत्रिकाभिः । जिनस्य पूजार्थमुपागताभि[रम ]र्त्यरामाभिरिवाभिरामम् ॥ ४६ ॥ कुमारो विस्मितस्तत्र प्रविष्टः प्रतिमां नमः । विलोक्य विकसद्रक्रः सोत्कर्षमिदमब्रवीत् ॥ ४७ ॥
Jain Education International
For Private & Personal Use Only
[ पञ्चमः
www.jainelibrary.org