________________
४६२
कुमारपालप्रतिबोधे
त्रिवर्गसेवया श्लाघ्यं तौ निजं जन्म निन्यतुः ॥ ३ ॥ अथानयोः समुत्पेदे कन्दर्प इव नन्दनः । कृतसर्वजनानन्दो नन्दनो नामविश्रुतः ॥ ४॥ वर्द्विष्णुः सोऽन्वहं कान्त्या रोचिष्णुश्चन्द्रमा इव । चरिष्णुर्विनयव्योम्नि जग्राह सकलाः कलाः ॥ ५ ॥ कदाचिद्राजपुत्रोऽयं नगर्यां क्रीडया भ्रमन् । तामुत्सवमयीं दृष्ट्वा मर्त्ये कञ्चन पृष्टवान् ॥ ६ ॥ किं कारणमियं प्रोद्यत् पताका प्रतिमन्दिरम् | नगरी कनकस्तम्भनिबद्धमणितोरणा ॥ ७ ॥ तेनोचेत्र पुरारक्षः पुरासन्नसरिज्जलैः । उह्यमानं महामानं मातुलिङ्गं व्यलोक्यत ॥ ८ ॥ प्रविश्यान्तस्तदादाय महाराजाय चार्पयत् । वर्णगन्धरसोत्कृष्टं तं दृष्ट्वा मुमुदे नृपः ॥ ९ ॥ राजा सत्कृत्य तं प्राप्तं कुत्रेदमिति पृष्टवान् । नद्यामित्युक्तवानेष ततोऽमुं पार्थिवोऽवदत् ॥ १० ॥ अन्वेषय वनं मौलं यत्रेदमुदपद्यत । ऊर्द्धभागे व्रजन्नेष नद्यास्तीरे ददर्श तत् ॥ ११ ॥ तत्र प्रविश्य गृह्णाति यः फलं मृत्युमेति सः । इति ज्ञात्वा पुरारक्षः पुरः क्षोणिभुजोऽवदत् ॥ १२ ॥ राज्ञोचे फलमानेयमेकैकं प्रत्यहं त्वया । एकैकं तत्र वारेण प्रवेश्य परपुरुषम् ॥ १३ ॥ फलादानेऽन्वहं तस्मिन्नेकैको म्रियते पुमान् । कियत्यपि गते काले पुरलोके विषीदति ॥ १४ ॥ वारको जिनदासस्य श्रावकस्य समाययौ । ययौ तत्र विवेशान्तः स नमस्कारमुद्धृणन् ॥ १५ ॥ तन्निशम्य स्मरन्पूर्वभवव्रतविराधनाम् । वनाधिष्ठायकः क्षुद्रः व्यन्तरः प्रतिबुद्धवान् ॥ १६ ॥ प्रत्यक्षीभूय नत्वा तं श्रावकं सो मुदाऽवदत् । दास्यामि फलमेकैकं स्थानस्थस्यैव तेऽन्वहम् ॥ १७ ॥ असौ व्यावृत्त्य वृत्तान्तं तं नृपस्य न्यवेदयत् ।
Jain Education International
For Private & Personal Use Only
[ पास
www.jainelibrary.org