SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ ३६४ Jain Education International कुमारपालप्रतिबोधे तथाप्यन्यं कर्तुं कथमपि न मे वाञ्छति मनः । क्वचित् किं न प्राप्तं श्रवणपथमाख्यानकमिदं वरं शून्या शाला भवतु न पुनस्तस्करभृता ॥ तथा देव्या विवाहो मे कथितो द्वादशे दिने । दशाहानि गतान्यद्य द्वे दिने तिष्ठतोऽधुना ॥ तयोर्मध्ये विवाहार्थ ध्रुवमेष्यति मे प्रियः । सत्या हि देवतावाणी वामं स्फुरति चाक्षि मे ॥ ममाङ्गं त्वत्करस्पर्शात् किं च रोमाञ्चमञ्चति । त्वद्वऋदर्शनादन्यत्कामयेते न लोचने ॥ त्वद्वाक्येनामृतेनेव सिक्तमुज्जृम्भते मनः । तदहं तर्कयाम्येवं स्त्रीरूपेण त्वमेव सः ॥ तं किं प्रत्यभिजानासि त्वभित्याख्यज्जयद्रथः । हसित्वा श्रीमती प्रोचे किमत्रार्थेऽपि संशयः ॥ कृष्ट्वाऽसौ गुटिकां वक्त्राज्जातः सहजरूपभृत् । तं दृष्ट्वा विकसच्चक्षुः श्रीमती विस्मिताऽवदत् ॥ अद्य पुण्यद्रुमो नाथ ! फलितो मे त्वदागमात् । त्वन्निमित्तमियत्कालं घृताः प्राणाः कुरूचितम् ॥ किन्तु त्वं कथमायातस्तत्र हेतुं जयद्रथः । देव्याराधनमाख्याय जगाम श्रेष्ठिमन्दिरम् ॥ राजा विदितवृत्तान्तो द्वितीयेऽह्नि जयद्रथम् । गौर्येव हिमवानीशं श्रीमत्या पर्यणाययत् ॥ दिनानि कतिचित्तत्र स्थित्वा प्रीतिपुरस्सरम् । गृहीत्वा श्वसुरानुज्ञां श्रीमतीं च जयद्रथः ॥ गुटिकायाः प्रभावेण व्योम्ना स्वपुरमगमत् । परितोषं परं पित्रोः शुचाविधुरयोर्व्यध्यात् ॥ इति घनरथ - पुत्रः प्राप भोगोपभोग व्रतविरचितचित्तश्चिन्तितं वस्त्विहापि । अयमधिगतमर्त्या मर्त्यशर्मा क्रमेण त्रुटितसकलकर्मा लप्स्यते मोक्षलक्ष्मीम् ॥ इति भोगोपभोगते जयद्रथकथा ॥ For Private & Personal Use Only [ चतुर्क www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy