________________
૨૬ર
[ चतुर्यः
कुमारपालप्रतिबोधे करिष्यति मुखे क्षिप्ता तवैका व्योमगामिताम् । द्वितीया त्वीप्सितं रूपमित्युक्त्वा देवता ययौ । कुमारः पश्यतां पुंसां गुटिकायाः प्रभावतः । उत्पत्य क्षणमात्रेण पुरीं स्वस्तिमतीमगात् ॥ श्रीपुञ्जश्रेष्ठिनो हट्टे निषसाद जयद्रथः । पृष्टस्तेन कुतः को वा त्वं महात्मनिहागतः ?॥ कुमारो जल्पतिस्मात्र प्राप्तो रत्नपुरादहम् । कौतुकेन भुवं भ्राम्यन् राजपुत्रो जयद्रथः ॥ स्थातव्यं मद्गृहे भद्र ! पितुर्ग्रह इव त्वया। इत्युक्वा तं गृहे नीत्वा श्रेष्ठी स्नानाद्यकारयत् ॥ तद्रूपालापशीलायैः कुटुम्बं श्रेष्ठिनोय॑धात् । कुमारे तत्क्षणात्पीतिः गुणाः प्रेम्णो हि कारणम् ॥ श्रेष्ठिपुत्री विशेषेण स्वसेव प्रीतिमत्यभूत् । द्वितीयेऽह्नि कुमारेण सा पृष्टा सादरं प्रगे॥ स्वसः ! किमद्य रात्रौ त्वं न दृष्टाऽथ जगाद सा। ममास्ति श्रीमती नाम भ्रातर्भूपसुता सखी ॥ तत्पार्श्वेऽहं स्थिता रात्रौ, सोऽवोचन्नय तत्र माम् । साऽववीक्षते नैषा पुरुषद्वेषिणी नरम् ॥ तेनोक्तं रमणीरूपं करिष्ये साऽभ्यधात्ततः । एवमस्त्विति तत् कृत्वा सोऽगात् तत्र तया समम् ।। उवाच श्रीमती केयं सखि ! श्रेष्ठिसुताऽवदत् । मत्सखीयं कलास्तस्याः कापीत्यूचे नृपात्मजा ॥ श्रेष्ठिपुत्री जगादैवं वेत्त्येषा सकलाः कलाः। तदा च श्रीमती हंसी वियुक्तां फलकेऽलिखत् ॥ तां जयद्रथ इत्यूचे त्वया विरहपीडिता। लिखितेयं परं नास्यास्तादृग् दृष्टयादि दृश्यते ॥ तर्हि त्वमालिखेत्युक्त्वा फलकं वर्णकैः सह । जयद्रथकुमाराय राजपुत्री समर्पयत् ॥ लिखित्वा तादृशीं सद्यो राजहंसी जयद्रथः । श्रीमत्यै दर्शयामास तां सा दृष्ट्वैवमब्रवीत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org