________________
३६१
प्रस्तावः]
भोगोपभोगव्रते जयद्रथ-कथा । किंत्वेतयोर्विवाहेच्छा स्यात्परस्परदर्शने। राज्ञोक्तमनयोस्तत्स्यादियहरस्थयोः कथम् ॥ अचैव निशि कुष्माण्डी देवी तत्कारयिष्यति । बादशेऽह्नि विवाहं च तदाराधय तां नृप! ॥ इत्युक्त्वाऽगानिमित्तज्ञो राज्ञाऽऽराध्यत देवता । प्रत्यक्षीभूय साऽवोचत् किं कार्य नृप ! , सोऽवदत् ॥ जयद्रथकुमारस्य श्रीमत्याश्च परस्परम् । यथा स्यादर्शनं देवि ! तथा मे कुर्वनुग्रहम् ॥ स्ववाहनहरिदेव्या नियुक्तः श्रीमतीमिह । आनीय दर्शयित्वा त्वां पुनस्तत्रैव नीतवान् ॥ इति स्त्रीसिंहवृत्तान्तः कुमार ! कथितस्तव । तेनोक्तं देवि! तत्राहं यथा यामि तथा कुरु॥ मांसं समर्प्य वैरोट्या प्रोचे भुक्ष्व झटित्यदः । नभोगमनसामर्थ्य येन स्यादद्भुतं तव ॥ सोऽवदद्देवि ! मांसस्य प्रत्याख्यानमहं व्यधाम् । देव्योक्तमधुनैवेदं तहि भक्षय दाडिमम् ॥ अस्य प्रभावाद्येन त्वं तत्र गत्वा निवर्तसे। तेनोक्तं कथमझीदं विरतो रात्रीभोजनात् ॥ दिव्यकन्यां पुरस्कृत्य कुमारं देवताऽवदत् । एतामुह येन स्यास्त्वं खेचरशिरोमणिः ॥ तेनोचे मैवमादिक्षः कन्यां याद्वहाम्यहम् । श्रीमत्युद्धाहवाञ्छा मे व्रतभङ्गाय जायते ॥ एकैव ह्यस्तु मे पत्नीत्युपभोगव्रतं व्यधाम् । ततः क्रुधेव वैरोट्या वक्तुमेवं प्रचक्रमे ॥ न करोषि ममादेशं स्वार्थमर्थयसे च यत् । तन्मूोऽसि प्रभोर्वामः फलं कोऽप्यश्नुते नहि ॥ तेनोक्तं देवि ! कुर्वेऽन्यदुःसाधमपि ते वचः । व्रतभङ्गो पुनर्येन स्यान्न तत्कर्तुमुत्सहे ॥ इत्यालोच्य व्रते दाढ्य वैरोट्या तुष्टमानसा । कुमारस्यार्पयामास गुटिके हे जगाद च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org