________________
३६०.
[चतुर्थः
कुमारपालप्रतिबोधे स्त्रीसिंहदर्शनं रात्रौ मायाप्येषा वितय॑ते । दुर्घटस्तत्प्रवेशो हि मन्दिरे पत्तिभिवृते ॥ तदागच्छ गृहं वत्स ! मावधीर्मा स्वमृत्युना। जायन्ते जीवतः पुंसः कल्याणान्यखिलानि हि ॥ सोऽवोचत्सम्भवत्येषा तात! मायापि किं त्विमम् । वृत्तान्तं देवतां पृष्ट्वा करिष्ये यदिहोचितम् ॥ कुरु प्रसादमत्रार्थ विघ्नं मे तात ! मा कृथाः। इत्युक्त्वा पुरतो देव्या निपपात जयद्रथः ॥ प्रधानपुरुषान् मुक्त्वा तत्पार्श्वेऽगान्नुपो गृहम् । किमन्यच्छक्यते कर्तुं मानुषे हि दृढाग्रहे ॥ सत्त्वाधारं निराहारं कुमारं कृतनिश्चयम् । सप्तमाहर्निशि प्रोचे प्रत्यक्षीभूय देवता ॥ भोः ! कुमार ! किमर्थं मामाराधयसि ?, सोऽब्रवीत् । देवि ! स्त्रीसिंहवृत्तान्तं वद मे, देव्यचीकथत् ॥ अस्ति स्वस्तिमती नाम पुरी पारेपरेऽम्बुधेः। योजनानां सहस्राणि सा बहूनि भवत्यतः ॥ तां प्रशास्ति नृपः शूरो राजराज इवालकाम् । न्यायविक्रमधर्माणामेको यः केलिमन्दिरम् ॥ तस्यास्ति विजयादेवी स्मरस्येव रतिः प्रिया। सा रूपनिर्जितश्रीकां श्रीमती सुषुवे सुताम् ॥ सा क्रमादक्रमाधीतकला प्रासापि यौवनम् । पुरुषद्वेषिणी केनाप्युद्धाहं सह नेच्छति ॥ ततश्चिन्ताब्धिनिर्मग्नो यावदस्ति धराधिपः । तावन्नैमित्तिकः कश्चिदागमद् व्योमवर्त्मना । तं निवेश्यासने है मे सत्कृत्य च नृपोऽब्रवीत् । श्रीमत्या मत्सुतायाः को भावी भर्त्तति कथ्यताम् ॥ सोऽप्युवाच सहस्रेषु योजनानां बहुष्वितः । पुरन्दरपुरप्रख्यमस्ति रत्नपुरं पुरम् ॥ तस्मिन् घनरथो राजा तस्य सूनुर्जयद्रथः। सोऽस्याः पूर्वभवे भर्ता स एव स्यादिहापि च ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org