________________
प्रस्तावः ]
भोगोपभोगत्रते जयद्रथ-कथा ।
३५९
जगाद च निवर्तस्व वत्स ! यामो निजं गृहम् । सोऽवदजीवितं धतुं नाहं क्षणमपि क्षमः ॥ किं नीतेन मया तस्मात्स्वामिन्नत्रैव पावकम् । प्रवेक्ष्यामि पुरो देव्यास्ततो रचय मे चिताम् ।। को हेतुर्जीवितं धर्तुं न क्षमोऽसीति जल्पितः । मुहुः पित्रा कुमारोऽभूत्रपयाऽवनतालनः ॥ ह्रियाऽसौ कारणं वक्तुं न शक्त इति चिन्तयन् । कथयास्मै स्वमित्रायेत्यूचे राजा जयद्रथम् ॥ सोऽवोचच्छ्रयतां मित्र ! निशीथे जाग्रता मया । दृष्टाऽद्य पुरतो बाला काचिल्लोचनरोचना ॥ शरच्चन्द्राम्भोजोत्पलकलशकुन्दप्रभृतयो
भजन्ते येऽन्यस्त्रीवपुरवयवानामुपमितिम् । त एवास्यास्तेषां निखिलभुवनासम्भवरुचां
पुरस्ताद्विन्यस्ता दधति नियतं किङ्करकलाम् ॥ विवृत्तशफराङ्गनालवणिमानमातन्वती
स्तथा मयि मुमोच सा सरभसं कटाक्षच्छटाः। विजृम्भितरतिभ्रमो रतिपतिर्मुहुर्मा हृदि
क्रुधेव निशितैः शरैः प्रववृते प्रहत्तुं यथा ॥ कथय कमलवक्त्रे ! का त्वमत्रागता वा
किमिति मृदुवचोभिर्वच्म्यहं यावदेताम् । निभृतपदमकस्मादेत्य सिंहेन तावत्
झगिति कवलितैषा राहुणेवेन्दुलेखा ॥ तद्धार्थ गृहीतासिरुत्थितोऽहं स निर्गतः । तस्याहं पृष्ठतो लग्नः सोत्रागत्य गतः कचित् । स्त्रियास्तस्या विपत्तिम जीवितत्यागकारणम् । कथितस्तेन मित्रेण वृत्तान्तोऽयं महीभृतः॥ राज्ञोक्तं सा विपन्नेति विषादं वत्स ! मा कृथाः । यदन्या अपि विद्यन्ते भूपकन्या मनोहराः ।। किं च लज्जावहं वहिप्रवेशासहं त्यज । युक्तो नात्मवधः कर्तुं स्त्रीकृते कृतिनां यतः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org