________________
कुमारपालप्रतिबोधे
[ चतुर्थः
।
मरि गओ सुबंधू सग्गं च कमेण मोक्खं च ॥
इति दिग्वते सुबन्धुकथा । बीयं गुण-व्वयं पुण भोयणओ कम्मओ य होइ दुहा । तं भोयणओ भोगोवभोग-माणं विहेयव्वं ॥ सइ भुज त्ति भोगो सो पुण आहार-पुप्फमाईओ। उवभोगो य पुणो पुण उवभुज्जइ भुवण-विलयाई॥ असणस्स खाइमस्स य विरई कुज्जा निसाइ जा जीवं । मुहु-मज्ज-मंस-भक्खण-पमुहाण य सव्वहा नियमं ॥ पनरस-कम्मादाणाई कोटवालाइणो नियोगा य । तं कम्मओ पणीयं तत्थ करिज्जा बुहो जयणं ॥
पुरुषः पालयन् भोगोपभोगव्रतमादृतः । जयद्रथ इवाभीष्टं लभतेऽत्रापि जन्मनि ॥ तद्यथा भारतक्षोणीरमणीमणिकङ्कणम् । सुवर्णनिकराकीर्णमस्तिरत्नपुरं पुरम् ॥ यत्र त्रासः कुमणिषु सरोगत्वमम्भोजखण्डे
दण्डच्छत्रेष्वलिकफलकेऽलीकशब्दप्रवृत्तिः । चन्द्रापत्ये विधुतनयता मारवाक् पुष्पचापे ___ नद्यां रोधस्तरुषु कलिकोपक्रमो न प्रजासु॥ तस्मिन् धनरथो राजा रणे यत्तरवारिणा । कृतवैरियशोहंसप्रवासेन घनायितम् ॥ तस्य काञ्चनगौरस्य श्रीदेवी नाम देव्यभूत् । विष्णुं कृष्ण इति त्यक्त्वा या बभौ श्रीरिवागता ।। तया सार्धं स भुञ्जानो भोगान् शच्येव वासवः। निर्भरानन्दनिर्मग्रो गमयामास वासरान् ॥ अन्यदा सुषुवे पुत्रं श्रीदेवी दिव्यदर्शनम् । तस्य ऋद्ध्या नृपो नाम जयद्रथ इति व्यधात् ॥ पारीणः सर्वशास्त्राणां धुरीणः सर्वशस्त्रिणाम् । क्रमेण वईमानोऽसावजनिष्ट जयद्रथः ॥ स स्त्रीनेत्रमृगक्रीडावनं यातेऽपि यौवनम् । नाभ्रे भूभुजां पुत्रीः परिणेतुमुपस्थिताः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org