________________
प्रस्ताव: ]
परिग्रहपरिमाणे हरिविक्रम - कथा |
देव ! चित्तं कलावत्या यन्न रेमे नरे कचित् ॥ साम्प्रतं वामनाख्याते राजपुत्रे पुरन्दरे । बोत्कण्ठं तदस्वस्थं न क्वापि लभते रतिम् ॥ इति श्रुत्वा नृपो हृष्टः कलावत्या गृहं ययौ । आहूय वामनं तत्र निजगाद सगौरवम् ॥ छन्नरूपस्त्वमेवासि राजपुत्रः पुरन्दरः । उत्तमैश्चरितैर्ज्ञातस्तदात्मानं प्रकाशय ॥ राजा रजनीवृत्तान्तं जानातीति विचिन्त्य सः । अहो ! देवस्य दक्षत्वं इत्युक्त्वा स्वमदर्शयत् ॥ जगाद च निशम्याहं राजपुत्रीं गुणोज्ज्वलाम् । कृतरूपपरावर्तः कौतुकाद्रष्टुमागतः ॥ मङ्गलार्थं पुरस्कृत्य कुचकुम्भौ नृपात्मजा । प्रेमाद्री तन्मुखे दृष्टि पुष्पवृष्टिमिवामुचत् ॥ राजा तमद्भुतं दृष्ट्वा निजां पुत्रीं च तादृशीम् । अवोचदनयोर्युक्तः सम्बन्धस्तुल्यरूपयोः ॥ प्रशस्तेऽह्नि शुभे लग्ने विभूत्याऽतिप्रकृष्टया । अकारयत्तयोर्भूपः पाणिग्रहणमादात् ॥
कृतार्थः पार्थिवो राज्ये स्थापयित्वा पुरन्दरम् । प्रतिपेदे स्वयं दीक्षामाहतीं गुरुसन्निधौ ||
एवं परस्त्रीनियमात् प्रकृष्टां पुरन्दरः प्रापदिहापि ऋद्धिम् । परत्र चासादितवाञ्छितार्थो गीर्वाणमिर्वाणसुखानि लब्धा ॥ इति परस्त्रीविरतौ पुरन्दरकथा ॥
7
दुपय- चउप्पय- धण-धन्न-खेत्त- घर - रुप्प - कणय - कुष्पाण जं परिमाणं तं पुण अणुब्वयं पंचमं बिंति ॥ जीवो भवे अपारे गरुय परिग्गह भरेण अक्कतो । दुह-लहरि-परिक्खित्तो बुड्डइ पोओ व्व जलहिम्मि ॥ धम्माराम - खयं खमा-कमलिणी-संघाय - निग्घायणं
मज्जाया तडि पाडणं सुह-मणो-हंसस्स निव्वासणं । बुढि लोह - महण्णवस्स खणणं सत्ताणुकंपा-भुवो
Jain Education International
For Private & Personal Use Only
३४३
www.jainelibrary.org