________________
३४२
कुमारपालप्रतिबोधे
[चतुर्थः
वामनः
परस्त्री सेवितुं जातु चित्तमुत्सहते न मे ।
जननीव नमस्कार्या त्वं देवि ! मम तहज ॥ देवी
करोषि यदि मे वाक्यं यदिच्छसि ददामि तत् ।
भविष्यत्यन्यथा मूढ ! सन्देहो जीवितेऽपि ते ॥ वामनः
अखण्डितचरित्रस्य मृत्युरप्यस्तु मे वरम् । लभ्यते यदनाचारात् साम्राज्येनापि तेन किम् ।। इति प्रार्थयमानासौ वामनेन निराकृता। विलक्षीभूय संप्राप स्वस्थानं मदिरावती ॥ . राजाऽपि शयने गत्वा चिन्तयामास चेतसि । अहो ! दुश्चरितं स्त्रीणां विचाराणामगोचरः॥ अकृतान्याङ्गनासङ्गं सर्वाभीष्टार्थपूरकम् । मां विहाय विधत्ते हा ! किमेषा वामने मनः ॥ प्रेमसर्वस्वशंसीनि कुर्वत्यपि चटूनि मे। रमतेऽसौ हहान्यत्र वेत्ति स्त्रीचरितं हि कः ॥ किं तडित्करिकर्णाद्या येन द्रव्येण निर्मिताः। स्त्रीणां चित्तस्य निर्माणे तदेव विधिनादृतम् ॥ धिमां विषयगृद्धं यद्विषयाः स्त्रीनिबन्धनाः। स्त्रीणां चरित्रमीदृशं यद्वक्तुमपि नोचितम् ॥ अहो ! मे मन्दभाग्यत्वं कालेनैतावतापि यत् । नैकोऽपि समभूत् पुत्रो यं राज्ये स्थापयाम्यहम् ॥ कलावत्यपि चेत्कुच्चित्तं राजसुते कचित् । तत्तमेव निजे राज्ये निवेश्य व्रतमादे ॥ इति चिन्ताजुषो राज्ञः प्राज्यानर्थनिबन्धनम् । जवाद्विषयतृष्णेव निशा नाशं समासदत् ॥ रुडदृष्टिस्तमस्तोमः प्राप मोह इव क्षयम् । दोषान्तमुद्यं लेभे विवेक इव भास्करः ॥ अत्रान्तरे प्रतिहार्या विज्ञप्तः पृथिवीपतिः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org