________________
प्रस्तावः ]
परस्त्रीविरतौ पुरन्दर-कथा।
३४१
देवी
कामार्ता त्वामुपासितुम् ॥ वामन:
कुरूपो धनहीनोऽहं मुग्धे ! किं मामुपस्थिता ।
रूपनिर्जितकन्दर्पः पृथ्वीनाथः पतिस्तव ।। हंसं हित्वा कलयसि बकं रत्नमुत्सृज्य धरले __ काचं कार्तस्वरमवगणय्यारकूटं बिभर्षि । दुग्धं त्यक्त्वा पिबसि विकले ! काञ्जिकं यद्रिमुच्य
क्षोणीनाथं रचयसि रुचिं सेवितुं वामनं माम् ॥ राजा (स्वगतम्)साधु वामन ! धन्योऽसि यः स्तौष्यन्यं स्वनिन्दया ।
स्वं निर्गुणमपि प्रायो मन्यन्ते गुणिनं जडाः ॥ देवी
तदेव सुन्दरं तस्य यद्यस्य प्रतिभासते। विमुच्य करभश्चूतं करीरे कुरुते रतिम् ॥ तन्नाथ ! किं विचारेण मद्वचः कुरु सत्वरम् । प्रियस्त्वं मे नरेन्द्रस्तु द्वेष्यो वार्धकदूषितः ।। राजा (स्वगतम्)ताश्चटूक्तीः पुरा श्रुत्वा देवीवदननिर्गताः।
चटूक्तीः सांप्रतं शृण्वन्न किं हृदय ! भिद्यसे॥ वामन:
चक्षुषाऽपि निरीक्षेऽहं नान्यामपि परस्त्रियम् । किं पुनर्भवती भद्रे ! महाराजस्य वल्लभाम् ॥ राजा (स्वगतम् )शरीरेणैव वत्स ! त्वमहो! वामन ! वामनः ।
कर्मभिः पुनरुत्तुङ्गस्त्वमेव जगतोऽप्यसि ॥ देवी
परस्त्री किमहं मूर्ख ! या त्वां स्वयमुपस्थिता। परस्त्री कथिता सा हि या बलादुपपद्यते ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org