________________
३४०
कुमारपालप्रतिबोधे
ध्रुवम् ॥
कण्ठः कम्बुविडम्बकोऽक्षियुगलं नीलोत्पलश्रीहरम् । पाणिद्वन्द्वमशोकपल्लवरुचां लुण्टाकमस्यास्ततः कोऽप्यन्यत्कृतपूर्व सृष्टिमहिमा धातुः प्रयत्नो अथ पृष्टः कलावत्या कुत्रत्योऽसीति वामनः । विलासपुर वास्तव्यो ऽस्मीति स प्रत्यपीपदत् ॥ किं तत्र नगरे किञ्चिदस्ति वस्त्वद्भुतं वद । इति प्रोक्ते कलावत्या साकूतं वामनोऽब्रवीत् ॥ तत्र सिंहरथो राजा तस्य पुत्र पुरन्दरः । यः सौन्दर्यकलौदार्यविक्रमादिभिरद्भुतः ॥ इत्याकर्ण्य कुमारं प्रत्यनुरागं चकार सा । को वा न रज्यते लोकः श्रुतैरप्यद्भुतैर्गुणैः ॥ त्यक्तान्यसर्वव्यापारा चिन्तयन्ती पुरन्दरम् । योगिनीव परात्मानं दिवसानि निनाय सा ॥ आसने शयने रात्रौ दिवसे भवने वने । नाससाद रतिं कापि शफरीव स्थले स्थिता ॥ जलार्द्रासुमनःशल्याचन्द्रचन्दनपञ्चमान् । प्रपञ्चितवपुस्तापान् मेनेऽग्नीनिव पञ्च सा ॥ इतश्च गीतं शृण्वन्त्या वामनस्य मनोहरम् । मदनो मदीरावत्या मनो बाणैरताडयत् ॥ सा निशीथे नृपं सुतं त्यक्त्वोत्थाय शनैः शनैः । प्रस्थिता वामनभ्यर्णमङ्गरक्षैरलक्षिता ॥ विबुद्धो नृपतिः कासौ चलितेति विचिन्तयन् । मन्दं मन्दं पदन्यासमन्वगान्मदिरावतीम् ॥ गत्वा व्यबोधयद्देवी वामनं मधुरोक्तिभिः । करिष्यति किमेषेति ज्ञातुं छन्नो नृपः स्थितः ॥ वामन: - ( देवीमालोक्य )
देवता सदृशी का त्वम् ?
देवी
वामनः
अनागतासि किं कर्तु
Jain Education International
देव्यहं मदिरावती |
For Private & Personal Use Only
[ चतुर्थ:
www.jainelibrary.org