________________
प्रस्ताव: ]
परस्त्रीविरतौ पुरन्दर-कथा |
परस्त्रीविप्लवं कृत्वा मागास्तिष्ठ पुरो मम । तस्य सिंह इवेभस्य कुमारः संमुखः स्थितः ॥ जगाद च सदैवाहं परस्त्रीणां पराङ्मुखः । संमुखः परस्त्रीणां ब्रूहि यत्तेऽभिवाञ्छितम् ॥ दिव्यरूपधरो भूत्वा सोऽब्रवीत्तिष्ठताग्रतः । सर्वत्र शुचयो धीरा इति सत्यीकृतं त्वया ॥ अहं स्वामी वनस्यास्य व्यन्तरः पिङ्गलाभिधः । अद्य वेलावनेऽम्भोधेर्मित्रपार्श्वमहं गतः ॥ निवृत्य यावदायातस्तावद्वीक्ष्ये निजां प्रियाम् । प्रार्थनां तव कुर्वाणां प्रच्छन्नोऽहं स्थितस्ततः ॥ तृणवत्तामवज्ञाय यत्त्वं सत्त्वमहोदधिः । प्रस्थितोऽसि तदाश्चर्यं दुष्करं किमतः परम् ॥ तुष्टोऽहं किं ददे तुभ्यं अथावादीत्पुरन्दरः । भद्र ! किं न त्वया दत्तं ददता दिव्यदर्शनम् ॥ तस्मै याच्ञानभिज्ञायाप्यमोघं देवदर्शनम् । इति जल्पन् सुरश्चिन्तारत्नं दत्वा तिरोदधे ॥ चिन्तारत्नप्रभावेण प्राप्तसर्वसमीहितः ।
•
त्यागं भोगांश्च कुर्वन् स क्रमाद्भोगपुरं ययौ ॥ राजपुत्रीमुपायेन पश्यामीति पुरन्दरः । वामनः समभूद्रूपपरावर्तनविद्यया ॥ कथागीतादिभिः कुर्वन् पुरलोकस्य विस्मयम् । जगाम वामनः ख्यातिं गुणा हि यशसः पदम् ॥ अन्यदाऽऽश्चर्यकारीति नृपेणाहूय वामनः । त्वमस्मत्सन्निधौ तिष्ठेरित्युक्तः स तथाऽकरोत् ॥ कलाविद् वामनश्चायमिति जातकुतूहला । चेटीं प्रेष्यात्मनः पार्श्वे तमाहृत कलावती ॥ सा प्रीतिमगमद् दृष्टे वामनेऽपि नृपात्मजे । कुर्यात् कुमुदिनीं स्मेरां मेघच्छन्नोऽपि चन्द्रमाः ॥ दृष्ट्वा राजसुतां हृष्टो दध्यौ मनसि वामनः । अस्यां प्रकर्षमारूढं रूपनिर्माणकौशलम् ॥ वक्त्रं चन्द्रविजित्वरं यदधरो बन्धूकबाधाबुधः
Jain Education International
For Private & Personal Use Only
३३९
www.jainelibrary.org