________________
३३८
कुमारपाल प्रतिबोधे
केनापि पीड्यते काचित् वराकीति स चिन्तयन् । बिभ्रत् कृपां कृपाणं च तं शब्दं प्रत्यगाद्भुतम् ॥ सोऽपश्यत् काननस्यान्तः स्त्रीमेकां कलशस्तनीम् । पद्मास्यां पल्लवाताम्रपाणिपादां मृगेक्षणाम् ॥ दिक्षु चक्षुः क्षिपन् कश्चिदृष्ट्वा तत्र मानुषम् । आबभाषे कुमारस्तां कस्त्वां भद्रे ! विबाधते ॥ स्त्री
यतः प्रभृति दृष्टस्त्वं तदादि मदनः प्रभो ! । मां पीडयति पञ्चेषुरप्य संख्यैरिवेषुभिः ॥ त्वमेव मदनस्पट्ट शरणं मम नापरः । तत्त्वं निजभुजस्तम्भमध्यमारोप्य रक्ष माम् ॥ कुमारः
त्वां परस्त्रीं कथं भद्रे ! स्वकराभ्यां स्पृशाम्यहम् | स्त्री
-
पुरुषस्य परैव स्त्री सर्वेति प्राज्ञ ! चिन्तय ॥
कुमार:
यद्यप्येवं तथापि त्वं मम नासि परिग्रहे । स्त्री
महान्तो नाथ ! मन्यन्ते जगत्सर्वं परिग्रहे कुमार:
तथापि तव सम्भोगः करोति दुरतिक्रमम् । उभयोर्लोकयोः वमतस्त्वां कथमाद्रिये ॥
स्त्री
स्मरार्त्ता सानुरागाऽहं स्वामिंस्तन्मम सङ्गमः । कुर्यात्तव ममाप्येभयोर्लोकयोः सुखम् ॥ कुमार:
सर्वथा न करोम्ये परस्त्रीस्पर्शपातकम् । ततः किममुना साकं त्वया वाक्कलहेन मे ॥ इत्युक्त्वा स वनात्तस्मान्निर्गत्य वलितोऽग्रतः । तमाचचक्षे साक्षेपमेकः शस्त्रीकरः पुमान् ॥
Jain Education International
For Private & Personal Use Only
[ चतुर्थ:
www.jainelibrary.org