________________
[ चतुर्थः
कुमारपालप्रतिबोधे सोऽहं यौवनमासाद्य चण्डानिलमिवानलः । तमवाप मदोद्रेकं यत्राकृत्यं न किञ्चन ॥ अन्यदा गगने भ्राम्यन रत्नशालपुरप्रभोः । खेचरस्य प्रियां दृष्ट्वा जातोऽस्मि स्मरविह्वलः ॥ सहसा तामपाहाणे मांसपेशी यथा खगः । कन्दर्पविवशानां हि क प्रेक्षापूर्वकारिता ॥ तामादाय कुरङ्गाक्षीमिहायातमरुड माम् । पृष्ठागतः पतिस्तस्या नकुलः पन्नगं यथा ॥ मां विनिर्जित्य युद्धेन प्रापय्य च दशामिमाम् । स जगाम निजं स्थानं गृहीत्वा गृहिणीं निजाम् ॥ तदेवं व्यसनाम्भोधौ मग्नो येनाहमुद्धृतः । स निष्कारणबन्धुस्त्वं महात्मन् ! मम वर्तसे ॥ अतो रूपपरावर्तविद्यामादाय मे प्रियम् । कतुमर्हसि यत् सन्तः प्रार्थनाभङ्गभीरवः ॥ परोपरोधप्राधान्यादग्रहीत्त पुरन्दरः। परस्त्रीसंगमोहिमः स्वस्थानं सूर्पको ययौ । अथ सज्जनवत्तत्र सुखदः स्फुरितो मरुत् । जिनवाक्यमिवापास्तरजोगन्धपयोऽपतत् ॥ पुष्पवृष्टिरभूत्सृष्टेः पञ्चवर्णतयोत्कटा। साधोर्गुण इव व्योन्नि जजृम्भे दुन्दुभेनिः । क्रीडासन जगल्लक्ष्म्याः स्वर्णपद्मं व्यधुः सुराः । निषण्णः केवली तत्र राजहंस इवोज्वलः । देशनां कर्तुमारेभे सदेवनरपर्षदः । तं नत्वा विस्मयस्मेरः कुमारो न्यषदत्पुरः ॥ जन्तुघातो मृषावादः स्तेयं युवतिसङ्गमः । परिग्रहश्च पञ्चामी मुच्यतां पापहेतवः ॥ इति श्रुत्वा भवोद्विग्नो निजगाद पुरन्दरः। भगवन् ! सर्वथा कर्तुं त्वदुक्तमहमक्षमः ॥ परस्त्रीत्यागमात्रं तु करिष्ये जीवितावधि । यद्विपाको मया दृष्टः संप्रत्येवातिदारुणः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org