SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ प्रस्ताव: ] Jain Education International परस्त्रीविरतौ पुरन्दरकथा । तद्यथाऽस्त्यत्र विस्तीर्णे जम्बूद्वीपस्य भारते । महाधनजनाकीर्ण विलासपुरपत्तनम् ॥ शुभारम्भाकीर्णाः प्रचलदलकान्ताः सतिलका: प्रपन्नाः पुन्नागैरसमलवलिव्यक्तरुचयः । बहिर्यत्रान्तश्च प्रकटितमहामानवकुलाः सदारामाः पुंसां पृथुलकुचरम्या मुद्द्मदुः ॥ तत्र सिंहरथो राजा शूरः सिंह इवाभवत् । चित्रं क्रमागतं मार्ग यो बिभेद न जातुचित् ॥ यत्कृपाणलतालग्नद्विषलोहितपल्लवाः । सुषुवे दिग्वधूत्तंसं यशः कुसुममाहवे । तस्य सुन्दरदेहस्य देवी कनकवत्यभूत् । अनङ्ग इति कन्दर्पं त्यक्त्वा रतिरिवागता || तयोर्भुञ्जानयोर्भोगान् पूर्वपुण्यसमुद्भवान् । सौन्दर्यनिर्जितामर्त्य कुमारस्तनयोऽभवत् ॥ पुरन्दर इति ख्यातः सोऽधीत्य सकलाः कलाः । कामिनीमानसोन्मादजननं यौवनं ययौ ॥ सोऽगादन्येद्युरुद्यानं द्रुमराजिविराजितम् । तत्र नानाविधाः क्रीडाः कुर्व्वन् बभ्राम सर्वतः ॥ सोऽपश्यत्खेचरं कश्चिवेदनानष्टचेतनम् । कीलितं तरुणा सार्द्धं हस्तयोः पादयोस्तथा ॥ कुमारः करुणाक्रान्तस्तस्य निष्कास्य कीलकान् । संरोहण्योषधीयोगाइणसंरोहणं व्यधात् ॥ स्वस्थीभूतं तमप्राक्षीत् कुमारः किं तवेदृशी । दर्शनीयाकृतिव्यक्तगुणस्याप्यभवदशा ॥ अवोचत् खेचरो यद्यप्यवद्यं चरितं मम । तथापि कथयाम्येष तव जीवितदायिनः ॥ अस्ति प्रशस्तमुत्तुङ्गमणिमन्दिर सुन्दरम् । वैताढ्यस्योत्तर श्रेण्यां पुरं गगनवल्लभम् ॥ तत्र विद्याधराधीशो रत्नचूडोऽस्ति विश्रुतः । अनिरुद्धः स्मरस्येव सूनुस्तस्यास्मि सूर्पकः ॥ For Private & Personal Use Only 33 www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy