________________
३२७
प्रस्तावः ]
मृषावादविरतौ मकरध्वज-कथा । यत्रोत्पेदे पदं वाचां सत्यानां मकरध्वजः । कोऽयं वृत्तांत इत्युचे तं विस्मितमुखो नृपः ॥ तेनोक्तं तत्पुरोद्यानाध्यक्षो यक्षोऽस्मि षण्मुखः। रजन्यां तु निजैः पुण्यैर्लब्ध्वा रत्नचतुष्टयम् ॥ कुमारो मद्गृहं प्राप स श्रुत्वा मुनिदेशनाम् । सत्यवागवतमादाय प्रातः स्वगृहमागमत् ॥ अथादित्योदये गच्छन्नप्रच्छि स मुनिर्मया। सत्यवाग्व्रतमेतत् किं कुमारः पालयिष्यति ॥ किं वाहमिव लोभेन बाधितः खण्डयिष्यति । साधुरूचे व्रतं नैष प्राणत्यागेऽपि लोप्स्यति ॥ ततोऽमुष्य परीक्षार्थमहं कर्पटिकोऽभवम् । रत्नेष्वपि निरीहोऽसौ न सत्यव्रतमत्यजत् ॥ अस्यास्ति सदृशः कश्चिन्नान्यः सत्वनिधिः पुमान् । इत्युक्त्वान्यदपि द्रव्यं दत्वाऽस्मै व्यन्तरो ययौ॥ कुमारस्य वचः सत्यं रत्नलाभं च तादृशम् । दृष्ट्वा हृष्टो नृपः प्रोचे सचिवान्निखिलानिदम् ॥ अयमेव महासत्वः सत्यवाक सुकृतास्पदम् । लघुरप्येष निःशेषकुमाराणां गुणैर्महान् ॥ अस्याद्भुतेन सत्येन पुण्येन च कदाचन । न देशे भविता दौस्थ्यं दुर्भिक्षडमरादिकम् ॥ ततो राज्यभरं वोढुमयं धत्ते धुरीणताम् । इत्युक्त्वा तं नृपो राज्ये निवेश्य जगृहे व्रतम् ॥ राज्यं सत्यप्रधानोऽयं व्यधत्त मकरध्वजः । लीलयैवाखिलास्तस्य भूपालाः प्रणतिं ययुः ॥ कुर्वाणेन जिनेन्द्रार्चा तेन साधूनमस्यता। पात्रेभ्यो दद्दता वित्तं जगृहे जन्मनः फलम् ॥ पालयित्वा चिरं राज्यं स्मरन् पश्चनमस्क्रियाम् । मृत्वोत्पन्नः सहस्रारे त्रिदशो मकरध्वजः ॥ इति कृतमृषावादत्यागवतो मकरध्वजो व्यलभत भवेऽप्यस्मिन् कीर्ति श्रियं च दुरासदाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |