________________
प्रस्तावः]
मृषावादविरतौ मकरध्वज-कथा ।
३२५
यापीयूषरसस्यन्द इव सम्ममाधौ ॥ तस्यानुसारतो गच्छन् व्यन्तरायतनस्थितम् । मुनीन्द्रमेकमद्राक्षीत सज्ञानमिव मूर्तिमत॥ तस्याने स्त्रीगणे दिव्ये गीतातोद्यकृतोद्यमे । कुमारेण नरो नृत्यन् रम्यमूर्तिय॑लोक्यत ॥ तं पश्यन् कौतुकेनैष यावत् तत्र क्षणं स्थितः । तावत् सर्व स संहृत्य मुनिं नत्वा गतः क्वचित् ॥ कुमारो विस्मयस्मेरो नत्वाऽपृच्छत्तपोधनम् । भगवन् ! कस्तवाग्रेऽसौ व्यधान्नृत्यं क वा गतः ॥ मुनिनोक्तमयं यक्षः काननस्यास्य नायकः । वसत्यायतनेऽमुष्मिन्नाश्रित्य प्रतिमामिमाम् ॥ अत्रागतस्य मे स्थानादन्यतोऽनेन भक्तितः। निजागादङ्गनां कृत्वा चक्रे सङ्गीतकं क्षणम् ॥ संहृत्य सर्वरूपाणि सोऽधुना प्रतिमा श्रितः। कुमारो विस्मितः प्रोचे शक्तिरस्याद्भुता मुने ! ॥ साधुनोक्तमिदं स्तोकं यस्माद्देवा महर्द्धिकाः । अत्युत्कृष्टतपःशक्तियुक्ताश्च मुनिपुङ्गवाः ॥ कुर्वन्ति वैक्रिय रूपैर्जम्बूद्वीपस्य पूरणम् । इदं त्वल्पर्द्धिकस्यास्य व्यन्तरस्य विजृम्भितम् ॥ कुमारोऽवोचदेतेन भगवन् ! किं पुरा कृतम् । सञ्जातोऽयं यदल्पर्डिस्ततः साधुरचीकथत् ॥ मृषावाव्रतं पूर्वजन्मन्यादीयतामुना। तच भग्नमभाग्येन परन्यासापहारतः ॥ तेनाल्पर्द्धिरसौ जात इति श्रुत्वा नृपात्मजः । यावजीवं मृषावादविरतिं प्रत्यपद्यत ॥ अथ क्षपाक्षयं प्राप ततो नत्वा तपोधनम् । परितुष्टमना गेहं जगाम मकरध्वजः॥ तं दृष्ट्वा भ्रातरःप्रोचुः सोपहासं शुभं व्यधाः । स्वपुण्यमानमालोच्य यधावृत्तोऽसि बान्धव ! ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org