________________
३२४
कुमारपालप्रतिबोधे
आनय स्वर्णकोटिं तच्छिरश्छित्त्वाऽन्यथापय ॥ इत्याकर्ण्य पितुर्वाक्यं सामर्षो मकरध्वजः । निष्क्रान्तः सदसो धीरः केसरीवाद्रिकन्दरात् ॥ पुरीपरिसरं यावज्जगाम मकरध्वजः । तावद्दक्षिणदिग्वर्ती रासभो रसितं व्यधात् ॥ ततोऽपशकुनाशङ्की मुक्त्वा पूर्वामसौ दिशम् । चलितः पश्चिमां यावच्चक्राम कियतीं भुवम् ॥ तावद्दक्षिणदिग्भागे सोऽश्रौषीत्कौशिकस्वरम् । तमप्यशकुनं मत्वा प्रतस्थे दक्षिणां दिशम् || ततो दक्षिणतो जज्ञे तस्य घोरं शिवारुतम् ॥ तच्छ्रुत्वा दक्षिणां मुक्त्वा प्राचालीदुत्तरां दिशम् ॥ ततस्तस्याभवद्वामदिग्भागे पिङ्गलारुतम् । अप्रशस्तमिदं ज्ञात्वा राजसूनुरचिन्तयत् ॥ न्यषेधि गमनारम्भश्चतसृष्वपि दिक्षु मे । सम्प्रत्यशकुनैरेभिस्तत् कुन्त्रान्यत्र याम्यहं ॥ कथं च विनिवृत्याहमसाधितमनोरथः । उद्भटभ्रकुटीभीमं पश्यामि पितुराननम् ॥ साम्प्रतं साम्प्रतं तस्मादवस्थानमिहैव मे । रजनी बह्वपाया यन्निशीथस्तु विशेषतः ॥ तिष्ठतोऽचैव मे किञ्चिद् भद्रं भावीति तर्क्यते । इदं हि श्रूयते दत्ते शकुनो मानितो वरम् ॥ एवं चिन्तापरो यावत् तत्रास्ति मकरध्वजः । रुदन्ती कथयामास तस्य तावदिदं शिवा ॥ नद्यास्तीरेऽत्र यद्वंशयष्टिमध्येऽस्ति गोपितम् । तद्गुहाण चतुः कोटिमूल्यं रत्नचतुष्टयम् ॥ तच्छ्रुत्वा मुदितस्तत्र प्रयातो मकरध्वजः । यष्टिं ददर्श तत्पार्श्वे कञ्चिदप्रेक्ष्य मानुषम् ॥ भित्त्वा क्षुरिकया यष्टिं रत्नान्यादाय मध्यतः । नगराभिमुखं यावत् प्रस्थितो मकरध्वजः ॥ दिव्यगीतध्वनिस्तावत्तस्य श्रुतिपथं ययौ ।
Jain Education International
For Private & Personal Use Only
[चतुर्थ:
www.jainelibrary.org