________________
प्रस्तावः ]
मृषावादविरती मकरध्वज- कथा ।
नमस्कर्तुं निशि प्राप्तं तं बभाषे महीपतिः । वत्स ! त्यागो गुणः पुंसां यद्यपि प्रतिपादितः ॥ तथापि क्रियमाणोऽसावाहार इव मात्रया । पुरुषस्य गुणाय स्यादन्यथाऽनर्थकारणम् ॥ ततोऽर्थिभ्यस्त्वयोद्याने स्वर्ण कोटिर्यथा ददे । तथान्यदा न दातव्या क्वाप्याधिक्यं न शोभनम् ॥ आयस्थानेषु सर्वेषु यस्माद्देशे ममाखिले । त्रिंशदेव सुवर्णस्य जायन्ते किल कोटयः ॥ तत्र भक्तेषु पत्तीनां यान्ति षोडश कोटयः । गृहव्यये तु गच्छन्ति चतस्रः कोटयः सदा ॥ हस्तिनामेकया कोट्या भोगो भवति सर्वथा । गवाश्वकरभादीनां वृत्तिः कोटिद्वयव्ययात् ॥ चतस्रः कोटयस्त्यागे व्रजन्ति सकलार्थिनाम् । निधाने कोटयस्तिस्रः स्थाप्यन्ते प्रतिवत्सरम् ॥ तुष्टस्तुष्टस्ततस्त्वं चेत् कोटिं स्वर्णस्य दास्यसि । तदा स्तोकेन कालेन कोशो रिक्ती भविष्यति ॥ दुर्भिक्षे पतिते देवान्मयि मृत्युमुखं गते मत्सुतोऽपि ततो राज्यं कथं कर्तेति चिन्त्यताम् ॥ पुत्रः प्रोचे भवद्राज्ये यो भावी चेत्स पुण्यवान् । तदा वर्द्धिष्यते कोशो दुर्भिक्षं भविता न च ॥ अथ निष्पुण्यकः स स्यात् तदा तस्य त्रुटिष्यति । सञ्चितोऽपि चिरं कोशस्तत्कार्पण्येन तात ! किम् ॥ नृपेणोक्तं धनं पित्रोपार्जितं पुण्यवानपि । लब्ध्वा तेन पुमानन्यदर्जयन्नवलोक्यते ॥ विद्यमानं यथा बीजमुप्त्वा दक्षोऽपि कर्षकः । धान्यमाप्नोति पित्रर्थात्तथा पुत्रोऽर्थमनुते || पुत्रः प्रोचे यदादाय पुण्यं पूर्वभवार्जितम् । जन्तुर्जातस्तदेवास्य बीजं सर्वार्थसिद्धये ॥ क्रुद्धो राजाऽब्रवीद्वीजं पुण्यमेव यदि श्रियः ।
Jain Education International
For Private & Personal Use Only
३२३
www.jainelibrary.org