________________
३२२
कुमारपालप्रतिबोधे
[ चतुर्थः
उद्यानपालकस्तत्र नत्वा भूपं व्यजिज्ञपत् । गत्वोद्यानं वसन्ततुं देव ! पश्य प्रसीद नः ॥ इति श्रुत्वा जराक्रान्तं निजं देहं पुनः पुनः । पश्यन्निःश्वस्य भूपालस्तं प्रति प्रत्यपीपदत् ॥ वसन्तसमयः सोऽयं सर्वोत्सवशिरोमणिः । उद्यानं कुसुमाकीर्ण द्रुमसन्दोहसुन्दरम् ॥ सन्ति सन्तोषकारिणः क्रीडोपकरणं स्त्रियः। किन्तु कामविकाराणां कारणं नास्ति यौवनम् ॥ तद्विना न वनक्रीडां कर्तुमिच्छति मे मनः । शोभते क्रियमाणा हि क्रियाऽवस्थोचिता नृणाम् ॥ ततः क्रीडार्थमुद्यानमागमिष्यन्ति मे सुताः । तेषां तारुण्यरम्याणामिदं हि समयोचितम् ।। इत्युक्त्वा व्यसृजद्राजा दत्वार्थ वनपालकम् । कुमारांश्चादिशद्वत्सा ! गच्छत क्रीडितुं वनम् । पित्रादेशं गृहीत्वा ते स्नातालङ्कतमूर्तयः। आरुह्य करिणस्तुङ्गान् क्रीडां कर्तुं प्रतस्थिरे ॥ युष्माभिस्तत्र तद्देयं कुमारा दापयन्ति यत् । इत्यादिक्षत्सुताध्यक्षं कोशाध्यक्षान् पतिः क्षितेः । कुमारा जग्मुरुद्यानं चिक्रीडु मराजिषु । ममज्जुः केलिवापीषु विचिक्युः कुसुमानि च ॥ सर्वेऽपि कारयामासुबडस्पीः परस्परम् । सङ्गीतान्यमरस्त्रैणसगोत्रैः प्रमदाकुलैः ॥ तत्रार्थिभ्यो ददुर्लक्षमेके स्वर्णस्य केप्युभे । अन्ये तिस्रश्चतस्रश्च परे तुष्टा नृपात्मजाः ॥ अदाकोटी सुवर्णस्य कुमारो मकरध्वजः । ततः सर्वे समाजग्मुरुद्यानात् स्वं स्वमाश्रयम् ।। कोशाध्यक्षाः क्षितीशस्य सविषादं व्यजिज्ञपत् । हेम्नः कोटी दावेकामुद्याने मकरध्वजः ॥ कोट्यधं त्वपरे सर्वेऽप्यर्थिभ्यो व्यतरन् प्रभो!। इत्याकर्ण्य क्रुधं चक्रे क्षमापतिर्मकरध्वजे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org