________________
प्रस्ताव
मृषावादविरतौ मकरध्वज-कथा । ___ ३२१
३२१ जं गो-भू-कना-कूडसक्खि-नासापहार-अलियस्स। दुविह-तिविहेण-वजणमणुव्वयं बिंति तं बीयं ॥ भुयगो व्व अलियवाई होइ अवीसास-भायणं भुवणे । पावह अकित्ति-पसरं जणयाण वि जणइ संतावं ॥ सच्चेण फुरइ कित्ती सच्चेण जणम्मि होइ वीसासो। सग्गापवग्ग-सुह-संपयाउ जायंति सच्चेण ॥ कुरुते यो मृषावादविरतिं सत्यवागवतः । मकरध्वजवद्रमुभयत्रापि सोऽश्नुते ।। तद्यथा
दीपस्य जम्बूपपदस्य भारते समस्ति काञ्ची नगरी गरीयसी । लङ्केव कल्याणकलापकल्पिता परिस्फुरत्पुण्यजनालकेव या ॥
धनैरनन्धोऽत्र जनो न भोजनं
सरः सदम्भो न तपोधनव्रजः। सतामनागश्चरितं न भूपति
पुस्तरीणामनयो न चापरः ॥ तत्राभून्नृपतिरिदमनो नामविश्रुतः। यः सौन्दर्याच शौर्याच नारीणामभवत् प्रियः ॥ प्राज्यास्तस्याभवन् पुत्रास्तन्मध्ये यः पुनर्लघुः । रूपवानिति पित्रोक्तः स नाम्ना मकरध्वजः ॥ अन्यत्तद्रव्यमन्यः स वेधा येनैष निर्मितः।। अन्यथा कथमस्याङ्गमुत्कृष्टं जगतोऽप्यभूत् ॥ क्रमाद् वृद्धिङ्गतोऽधीती सकलासु कलासु यः। तीक्ष्णबुद्धिबलाद्वादं नदीष्णः शकुनेऽभवत् ॥ ततस्तद्भूतभाव्यथें परमार्थ विदन्नपि । ज्ञापयामास नात्मानमसौ कार्य विना महत् ॥ अथ मलयसमीरोद्दीपितानङ्गवह्निः
प्रतिविपिनविसर्पकोकिलारावरम्यः । विविधकुसुमगन्धभ्रान्तभृङ्गाभिरामः
समुदलसद्ऋतूनां चक्रवर्ती वसन्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org