________________
श्रेष्ठ! । सविताना विस्तारवन्तो हरयस्तुरंगा यस्य । क्षमा पृथ्वी स्वकीयां पालयितुम् , परकीयां ग्रहीतुम्-ऊहते वितर्कयति । कान्ताऽऽरा:-चारुचक्रमणा: वारणाः करिणो यस्य । त्रिवर्गपालक !। महान् उदयो यस्य । वीर ! विक्रान्त !। धीर ! साहसिक ! । प्रत्यहं कलोपचीयमानतया सोमस्य इव चन्द्रस्य इव प्रभावो यस्य । परेषां शत्रूणां मा लक्ष्मीः , तस्या आगमे व्यपगमे च सिद्धसूरे ! मन्त्रसिद्धाचार्य ! ॥ ९७ ॥
कल्याऽऽणसारसवितानहरे-क्षमोह ! कान्तारवाऽरण ! समान! जयाऽद्य देव! । धर्मार्थकामद! महोदयवीर! धीर! सोम! प्रभाव! परमाऽऽगम ! सिद्ध ! सूरे! ॥
सिद्धराजश्रीजयसिंहदेवस्य, परमार्हतश्रीकुमारपालस्य, श्रीमूलराजस्य च कलितसकलशास्रोपनिषदि पर्षदि प्राप्तप्रसिद्धिः कविराजश्रीपालकीर्तिलतालवालः श्रीसिद्धपालः।
हे सिद्ध ! सिद्धपाल ! " भीमो भीमसेनः” इति न्यायात् । “ कल्याणः कल्याणवाचि स्या” इति पाठात् कल्या कल्याणी वाक् संस्कृतादिषड्भाषानुगतकाव्यरूपा इत्यर्थः । तस्या आणो भणनम् , स एव श्रीर्यस्य । अत एव अरसा नीरसा ये कवयस्तेषां वितानमवसरः, तत् हरतिकल्याणीवाचं वितन्वति सति सिद्धपालनृपसदसि नीरसानामन्येषां कवीनां नावसर इत्यर्थः । इक्षमा लक्ष्मीसंपादनसमर्था ऊहा वितर्का यस्य-न केवलं कविः, किंतर्हि ? लक्ष्मीसंपादकव्यापारचिन्ताचतुरोऽपीत्यर्थः । कान्तः कमनीयः, आरवः शब्दो यस्य । अरण ! अकलह ! आत्मप्रशंसा-परनिन्दादिदोषरहितत्वात् । समान ! सकललोकपूज्य ! । जय त्वम् । अद्य । देव ! ज्ञातसर्वव्यवहार !। त्रिवर्गपालक ! । महोदयं विशेषेण ईर्ते गच्छति । धीर ! धिया बुद्धया राजते, धियं वा ददाति । सोम ! सकीर्ते !। प्रभाव ! प्रकृष्टाभिप्राय ! । परः प्रकृष्टः, माऽऽगमः लक्ष्मीसमागतिर्यस्य । सूरे ! सकलशास्त्रविशारद । अनेन विशेषणद्वयेन सिद्धपालस्य लोकोत्तरत्वमुक्तम् । सहवास' विरुद्धयोरपि लक्ष्मी-त्रायोरस्मिन् दर्शनात् ॥ १८ ॥
कल्याणसार! स वितानहरे ! क्षमोह ! कान्ताऽऽरवारण ! समान ! जयाऽद्य देव !। धर्मार्थकामऽदमहोदय ! वीरधीर! सोमप्रभाव ! परमागमसिद्ध ! सूरे! ॥ अथ श्रीअजितदेवसूरिः।
यः शास्त्रतर्कसुगताऽऽगमकाव्यतर्क-संपर्ककर्कशमतिप्रसरैः प्रबुद्धैः ।
भावारिभिः स्मरमदप्रमुखैर्बुभुक्षा-मुख्यैः परीषहगणैश्च न जीयते स्म ॥ सोऽर्थाद् अजितः, स चासौ मनोहराकारतया देवश्च । सूरे ! आचार्य ! अजितदेवसूरे ! इत्यर्थः । कनककमलवत् कपिशकान्ते ! । क्षमः प्रतिवादिविद्यामदच्छेदे समर्थः ऊहस्तकों यस्य । कान्तः कमनीयः, आरश्चक्रमणं तेन वारण इव गज इव-सलिलगमन इत्यर्थः । समान! सकललोकपूज्य ! । धर्ममेव अर्थ वस्तु कायति विच्-धर्मार्थकास्तं धर्माथकाम् । अव रक्ष रागाद्यन्तरङ्ग. रिपुध्वंसनेन । अदमहोदय । अदमः अनुपशमः, तं हन्ति अदमहा उदयो यस्य । वीरधीर ! अवनम् ऊः सर्वरक्षा, तस्याम् ईरधीर्गमनबुद्धिः, तां राति ददाति । सोमप्रभाव ! आल्हादक ! । परमागमसिद्ध ! जिनसिद्धान्तेन ख्यात ! ॥ ९९ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org