________________
कल्याऽऽणसारस ! वितान! हरे ! क्षमोह ! कान्ताऽऽरवारण ! समान! जयाद्य ! देव ! धर्मार्थ ! कामद! महोदयवीर! धीर! सोम ! प्रभावपरमाऽऽगमसिद्धमूरे ! ॥
अथ श्रीविजयसिंहसूरिः । हे हरे ! सिंह !, जयाद्य ! जयशब्दपूर्व !-जयसिंह ! । सवितान ! वेः विशब्दात् तानो विस्तारः, सह वितानेन वर्तते विजयसिंह इत्यर्थः । सूरे ! आचार्यकल्प !। कलिकालेऽपि दुष्करक्रियाकलापकरणसज आणः शब्दस्तेन सारस ! जलधर ! -गम्भीरया गिरा धर्मदेशनां करोति इत्यर्थः । क्षमा कान्तिम, ऊहते-महापराधेऽपि न कुप्यतीत्यर्थः । कान्तासु स्त्रीषु आरोऽभिगमः, तं वारयति स्वयं निरुपमब्रह्मचर्यपरः परेभ्यो ब्रह्मचर्यमुपदिशतीत्यर्थः । समान ! समस्तजनजनितपूज !। 'देव' इति क्रिया-अस्पृष्टापवादभूमितया देवदाचर । धर्मार्थ ! धर्महेतो ! । कामद ! स्मरखण्डक ! । ( महोदयवीर ! ) मोक्षगमनप्रगल्भ !। सोम ! चारित्रिषु प्रथमप्रथितकीर्ते!। प्रभावः-परैरनभिभवनीयोऽनुभवस्तेन परम ! प्रकृष्ट! स्व-पराऽऽगमप्रख्यात ! १००
इत्थमर्थशतं श्रुत्वा समुल्लसितगतिप्रकर्षः कोऽपि शिष्यः शतार्थवृत्तस्य कर्तारं स्वगुरुमनेनैव स्तौतिकल्याऽऽणसारसवितानहरेऽक्षमोहकान्तारवारण ! समान! जयाऽऽद्य ! देव!। धर्मार्थकाऽमद! महोद ! यवीर! धीर! सोमप्रभाऽऽवपरमाऽऽगमसिद्धसूरे! ॥
हे सोमप्रभसूरे ! कल्या विवक्षितार्थप्रतिपादनदक्षाः, आणाः शब्दाः, ते एव सारसानि पद्मानि, तेषां वितानो विस्तारस्तत्र हरे! सूर्य ! । अनेनास्य अनेकार्थशब्दसंदर्भगर्भ शतार्थवृत्तं व्यधात् प्रभुरित्युक्तम् । अक्षो ज्ञानम्, तत्र यो मोहो भ्रान्तिः, स एव कान्तारम्, तद्भञ्जने गजतुल्य ! । अनेन यथार्थावबोधभ्रमनिवृत्तये शतार्थवृत्तस्य वृत्तिं प्रभुश्चकारेत्युक्तम् । जय । त्वम् । आद्य! एकत्रैव वृत्तेऽर्थशताऽऽविर्भावनेन श्रेष्ठ ! । देव! चतुर्विशतिअहंदादिस्तुतिर्यस्मात् ।धर्मार्थक ! धर्मार्थः पुण्यहेतुः क आत्मा यस्य । अमद ! निरहंकार ! । महस्तेजो ददाति सकलसंघस्य तेजःप्रद इत्यर्थः । यवीर ! इ. कामः, अवीरः अविकान्तो यस्य । धीर ! धियं राति, धिया वा राजते । अवनं आवः सत्त्वरक्षा, तेन प्रकृष्ट ! । आगमेन सिद्धान्तेन सिद्ध ! ।। १॥ x x x x x x x x x
स एव शिष्यः स्वकृतैः कवित्वै-गुरोगरिम्णा जितकाञ्चनाद्रेः । गृहस्थभावान्वयकीर्तनेन व्यनक्ति भक्तिं पुनरुक्तमेताम् ॥ प्राग्वाटान्वयनीरराशिरजनीजानिर्जिनार्चापरः
संजातो जिनदेव इत्यभिधया चूडामणिमन्त्रिणाम् । यस्यौदार्य-विवेक-विक्रम-दया-दाक्षिण्यपुण्यैर्गुणैः ___ साम्यं लब्धुमहर्निशं जगदपि क्लिश्यन् न विश्राम्यति ॥ तस्याऽऽत्मजः सुजनमण्डलमौलिरत्न
मुज्जृम्भितेन्द्रियजयोऽजनि सर्वदेवः । एकस्थसर्वगुणनिर्मितकौतुकेन
धात्रा कृतोऽयमिति यः प्रथितः पृथिव्याम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org