________________
षट्पञ्चाशत् समीरप्रमुखनिजनिजाचारचातुर्यवर्याः ।
स्फूर्जन्माणिक्यहेमाभरणकवचिताश्चक्रिरे दिक्कुमार्यः॥ द्वात्रिंशत्रिदशाधिपा नृपगृहाचैत्ये द्विपाध्यासिता
कल्याणाभरणाभिरामवपुषः कल्याणकाद्युत्सवे । स्नात्रं कर्तुममर्त्यशैलशिरसि स्वर्गादिवाऽभ्याययु
स्तन्मध्ये च कुमारपालनृपतिर्भजेऽच्युतेन्द्रश्रियम् ॥ ईक्ष ! यथावस्थितदेव-गुरु-धर्मतत्त्ववीझक ! । मोहाय विपर्यासाय यः कान्तासु स्त्रीषु, आरः अभिगमः, तस्य वारण ! निषेवक !-प्रतिवर्ष वर्षाकालमासचतुष्टयम् , शेषकालेऽपि अष्टमी-चतुर्दश्यादिपर्वसु त्रिविधं त्रिविधेन ब्रह्मचर्य चकार इत्यर्थः । धर्महेतो ! द्यूताद्यधर्मनिषेधेन सर्वत्र प्रासादान् कृतवान् इत्यर्थः । वाञ्छितप्रदं महस्तेजो, दया च यस्य-तेजसो दुष्टानुत्थानात् , कृपया सर्वसत्त्वरक्षणाद् जगतोऽपि वाञ्छितार्थान् व्यधाद् इत्यर्थः । वीर ! चतुर्दिगन्तपरिवृढपराजयैकशूर !। धीर ! साहसिकचूडामणे ! । उमया सहिता सोमा सोमा सकीर्तिः प्रभा यस्य । स्व-परसिद्धान्ताधिगमसिद्धसूरिः श्रीहेमचन्द्र-नामा धर्माचार्यों यस्य ॥ ९५ ॥
कल्याऽऽणसारसवितानहरे-क्षमोह ! कान्तारवा ! रणसमानजयाद्य ! देव !। धर्मार्थ ! कामद ! महोदयवीरधीर ! सोमप्रभाऽव परमा गमसिद्धमूरे ! ॥
श्रीअजयदेवः । हे देव ! अजयाद्य ! अजयः ‘अजय ' इति शब्दो आयो यस्य ततः-अजयदेव ! । कलिः करि-नल्ला-ऽक-युद्धम् , तस्य आणः कोलाहलः, तेन सारः श्रेष्ठः, सवितानः सविस्तारः, हरः शंकरो यस्मात्-परमार्हतश्रीकुमारपालदेवप्रतिषिद्धं पृथिव्यां शिवधर्म प्रवर्तितवान् इत्यर्थः । ईक्षो दर्शनम्, तस्माद् मोहो रागो यस्य-यां यां राजकन्यां ददर्श तां तां पर्यणैषीद इत्यर्थः । कान्त ! कमनीय ! । आरवाः ! आरम्-अरिसमूह वारयति क्विप् , णिलोपः । रणो युद्धं तत्र समानः सदर्पः, तमाचष्टे णिच् , क्विप् , णिलोपः-यो यो युद्धाभिमानी भटस्तं तं सप्रसादमवादीद् इत्यर्थः । धर्मस्य अहिंसादेरौँ निवृत्तिर्यस्मात्-अहिंसां निषेध्य पापर्धिप्रवर्तनेन हिंसां च. कार इत्यर्थः । प्रणतप्रार्थितार्थप्रद ! । महोदया अभ्युद्यवन्तो ये वीराः शाकम्भरीभूप-सोमेश्वरप्रभृतयो विक्रान्ताः, तेषां धियं ईरयति कम्पयति-स्वस्थानस्याऽप्यऽस्य काञ्चनमण्डपिकादिप्रेषणात् तैः । सकीर्तिकान्ते ! । अव रक्ष। काः ? परमाः परेषां लक्ष्मीः । “सर्वे गत्यर्था ज्ञानार्थाः" इति गमो ज्ञानं तेन सिद्धा 'ज्ञानवन्तः' इति ख्यातिं गताः, सूरयः पण्डिता यस्मात् ।। ९६ ।।
कल्याणसार! सवितानहरे ! क्षमोह ! कान्ताऽऽरवारण ! समानऽजयाय! देव!। धर्मार्थकामद! महोदय ! वीर! धीर सोमप्रभाव! परमाऽऽगमसिद्धसुरे! ॥
अथ मूलराजः । हे आद्यदेव ! आद्यशब्दो मूलपर्यायः, देवशब्दो राजपर्यायश्च इति मूलराज!। अजय! न जीयते इत्यजयः, यदि वा अजयाद्य.! अजयदेवक्ष्मापतिः आद्यपितृत्वेन प्रथमो यस्य । देव! राजन् ! अव रक्ष । कान् ? समान अविषमान साधून इत्यर्थः । कल्याणसार ! मङ्गल
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org