________________
कल्याणसार ! सवितान ! हरे-ऽक्षमोह ! कान्ताऽऽरवारण ! समान ! जयाद्य ! देव ! | धर्मार्थकामद ! महोदय ! वीर ! धीर ! सोमप्रभाव पर - मागम ! सिद्धरे ! ||
११
अथ श्रीविक्रमतुलितनरसिंहदेवः श्रीजयसिंहदेवः । हे हरे ! अरिकरिशिरःकपाटपाटन-पटुतया सिंह !, जयाद्य ! जयशद्वपूर्व-जयसिंह !, दिव्यरूपरम्यतया देव !, कल्याणसार ! सुवर्णसिद्धिप्रधान !, सवितान ! वय: कुक्कुटाः पक्षिणः - तेषां तानो विस्तारस्तेन सह वर्तते - युद्धार्थं कुक्कुटान् दधौ इत्यर्थः ।
यदुक्तं श्रीकविराजेन -
रे भूपाः कविराज एष भवतो जल्पत्युदञ्चद्भुजः पूज्या वश्चरणायुधा परममी युष्मत्कुले देवताः । यद्युद्धोत्सवदर्शनैकरसिकः श्री ताम्रचूडध्वजो
देव: पश्यत नाधुना परि यत्येकातपत्रां महीम् ॥
अक्षैः पाशकैर्मोहयति द्यूतक्रीडापरान् पराजयते इत्यर्थः - दुर्बोधद्यूतवैशद्येन सकल कला कुशल इति लक्ष्ये । कान्तं कमनीयम्, आरम्-अरिसमूहः, तद्वारण ! साहंकारधाराधिपयशोवर्माद्यरिसमूहं गुप्तिक्षिप्तं निर्गच्छन्तं निवारयतीत्यर्थः । त्रिवर्गप्रद ! | महस्य रसोत्सवलक्षणस्य उदय - उन्नतिर्यस्मात् अद्यापि तत्प्रवर्तितस्य कनकदानप्रधानस्य रसोत्सवस्य प्रवर्तमानत्वात् । वीर ! एकाङ्गवीर ! | धीर ! साहसिकप्रकाण्ड ! दर्पान्धबर्बर कजिष्णु अवन्तिनाथ इत्यूर्जितैर्जयति नामभिरेव देवः ।
यदुवाच श्रीकविराज:
एकाङ्गवीर तिलको भुवनैकमल्लः सिद्धाधिपः परमसाहसिकप्रकाण्डः । दर्पान्धवर्वरक जिष्णुवन्तिनाथ इत्यूर्जितैर्जयति नामभिरेव देवः ॥
सोमप्रभः सोमवंशाऽऽद्यपुरुषः, तस्येव प्रभा यस्य । अव रक्ष जगत्-इति गम्यम् । परेषां शत्रूणां मां लक्ष्मीमागमयति वैरि-रिपुराजश्रियमानीतवान् इत्यर्थः । सिद्ध-साधित विविध सिद्धितया सिद्धराज ! ।। ९४॥
कल्याणसार ! सवितानहरे -क्ष ! मोहकान्ताऽऽरवारण ! समानऽजयाऽऽद्य ! देव ! | धर्मार्थ ! कामदमहोदय ! वीर ! धीर ! सोमप्रभाव परमागमसिद्धरे ! |
Jain Education International
अथ श्रीकुमारपालः । हे सवितानहर ! ससंतान: हरः शंकरो यस्मात् स सवितानहरः कुमारः, कुमारेणैव हरस्य ससंतानत्वात्, ततः कुमारदेव ! - देवशब्दस्य नृपपर्यायत्वात् कुमारनृपते ! । अजय: अजयदेवः क्ष्मापतिः, तस्य आद्य ! प्रथम ! | अब रक्ष, कान् ? सर्वान् " सम-सिमौ सर्वार्थो ” इति पाठात् । कल्याणानि जिनानां च्यवन - जन्म - दीक्षा - निर्वाणदिनोत्सवा:, तेषु पूजादिनिमित्तवित्तव्ययकरणेन श्रेष्ठ ! |
यदवोचाम
चौलुक्येन्द्रेण चैत्ये कुचकलश भरैर्बन्धुराः सिन्धुरस्त्रीस्कन्धारूढा विधातुं जिनजननमहे सूतिकर्मप्रपञ्चम् ।
For Private & Personal Use Only
www.jainelibrary.org