________________
परिशिष्टम् ।
कल्याणसारेसवितानहरे ! क्षमोहकान्तारवारण ! समान ! जयाऽऽद्यदेव !। धर्मार्थकाऽमद ! महोदयवीर ! धीर ! सोमप्रभाव ! परमाऽऽगमसिद्ध ! सूरे !॥
अथ षट्तीसंपर्कलम्पटदिक्पटपाटनप्रकृष्टमतिजितदेवसूरिः श्रीदेवसूरिः । हे सूरे ! आचार्य !, आद्यदेव ! आद्यो देव इति शब्दो यस्य देवसूरे:-इत्यर्थः । भद्राऽम्भोजनवनरवे ! । क्षम: अपणः कुमुदचन्द्रदिक्पटः, तस्य ऊहस्तकः स्त्रीनिर्वाणनिषेधरूपः, स एव कान्तारम, तद्भजने वारण ! गज !, अत एव समान ! श्रीसिद्धराजपर्षदि प्राप्तसत्कार!-जय त्वम् । धर्मार्थक ! वादजयतुष्टनृपतेः स्वापतेयप्राप्तावपि निरीहत्वात् धर्ममेव अर्थयते । अमद ! राजपूज्यत्वेऽपि निरहंकार !, महः तेजः, दया कृपा, समाहारत्वाद् महोदयम, तद् विशेषेण ईतें गच्छति, कृपा-तेजसी युगपदेकत्राऽसंभविनी अपि त्वयि अवस्थिते, अतस्त्वं लोकोत्तरोऽसि-इति ध्वन्यते । धीर ! अक्षोभ्य !, सोमसकीते !, परम ! प्रकृष्ट !, आगमसिद्ध ! युगप्रधानागम ! ॥ ९२॥
कल्याण ! सार ! सवितानहरे-क्ष ! मोहकान्तारवारण ! समान ! जयाऽऽयदेव !। धर्मा-ऽर्थ-कामद ! महोदयवीरधीर ! सोम ! प्रभावपरमाऽऽगमसिद्धमूरे ! ॥
अथ श्रीहेमाचार्यः । हे कल्याण ! मिथ्यात्वविषघातनाद्यष्टगुणोत्कृष्टत्वेन हेम !, सोम ! सकललोकलोचनचकोरचक्रलीढकान्तितया चन्द्र !, सूरे ! आचार्य !, ततः श्रीहेमचन्द्रसूरे,! इत्यर्थः । सार ! सर्वश्रेष्ठ ! । सवो यज्ञः, स विद्यते येषां ते सविनो याज्ञिकाः, तेषां तानः पशुवित्रासनस्य यज्ञविस्तारः, तं हरति प्रवर्तितसर्वसत्त्वाऽभयदानपटहत्वात् । ईक्ष ! समस्तशास्त्रार्थरहस्यवीक्षक !। मोहो यथार्थवस्तुनि संशय-विपर्यासरूपमज्ञानम्, तदेव काननम, तद्भजने वारण ! कुजर!। तथाहि
क्लुप्तं व्याकरणं नवं विरचितं छन्दो नवं द्वयाश्रया____ऽलंकारौ प्रथितौ नवौ प्रकटितौ श्रीयोगशास्त्रं नवम् । तर्कः संजनितो नवो जिनवरादीनां चरित्र नवं
बद्धं येन न के विधिना मोहः कृतो दूरतः ॥ समान ! समस्तराजाऽमात्यादिलोकैः कनककमलक्लुप्तचरणपूज ! जय त्वम् । आद्या मुख्याः, देवा वीतरागा यस्मात् , स्थाने स्थाने जिनायतनानां तेन कारितत्वात् । धर्मा-ऽर्थ-कामद ! भक्तानां तत्कालमेव त्रिवर्गप्राप्तेः । महान् करि-तुरग-रथ-पदातिप्राचुर्येण गुरुः, उदयः साम्राज्यं यस्य, स चासौ वीर:-चतुर्दिगन्तनृपतीनाम्-अर्णोराजादीनां पराजये शूरः-अर्थात् चक्रवर्तिश्रीकुमारपालदेवः, तस्य धियं [ अपत्यरहिता स्त्री निर्वीरा उच्छिन्नवंशा ] निर्वीराधनमुक्ति-मद्यमृगया-यूतादिव्यसनवारण-सर्वसत्त्वाऽभयदान-सर्वस्थानजिनभवनप्रधानां धर्मबुद्धिं राति । प्रभावपरम ! प्रभावः सकलपरतीर्थिकावर्जनमाहात्म्यम्, तेन प्रकृष्ट ! सैद्धान्तिकशिरोमणे ! ।। ९३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org