SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ स्म । स स्वभावेन सरलः, विचारैरुदारश्चाभूत् । धर्मेण परमजैनो भूत्वापि, न कदाचिदन्यधर्म प्रति तेन स्वकीयोऽनादरभावः प्रकटीकृतः, न कश्चिद् अन्य धर्मानुयायी तिरस्कृतश्च । वर्तमानगुर्जरनरेशश्रीमत्सयाजीरावमहाराजशासनवत् तत्प्रतिकृतिस्वरूप-तादृशसदाचारि-सद्गुणानुरागि-कुमारपालनृपशासनेऽपि सर्वाः प्रजाः स्वस्वयोग्यान् धर्मार्थकाममोक्षरूपान् चतुरः पुरुषार्थान् परस्पराविरोधरूपेण आचरन्त्यः शान्ति-सुख-सन्तोष-स्वास्थ्यलाभमकार्षः । इति भद्रम् । वीरनि० सं. २४४६, भाद्रपदपूर्णिमा । । मुनिराज-जिनविजयः। पुण्यपत्तने श्रीभारतजैनविद्यालयः । सूचना--अस्मिन् समग्रेऽपि ग्रन्थे ऐतिहासिकदृष्टया यावदुपयोगि वर्णनमुपलभ्यते, तावत् सर्वमपि, अतः समुध्दृत्य, 'कुमारपालप्रतिबोधसंक्षेप' नामकशिरोलेखस्याधस्तात्पृथग् मुद्रितमतनेषु पत्रेषु । अत ऐतिहासिकवृत्तमात्रजिज्ञासुभिर्विद्वद्भिस्तदेव विशेषतो दृष्टव्यम् । तेन समग्रग्रन्थस्य रहस्यं सुलभतया शीघ्रतया च सुज्ञातं भविष्यतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy