________________
८
यत्प्रकारं धर्मोपदेशं श्रुत्वा कुमारपालस्य जैनधर्मे सुश्रद्धा समुत्पन्ना, तादृशमुपदेशं विदधत एककथाग्रन्थस्य विरचनमेव ग्रन्थकारस्य प्रधान उद्देश:, इति विज्ञेयम् । एतद्भावसूचकः स्पष्टोल्लेखः प्रबन्धकारेण स्वयं ग्रन्थारम्भे निम्नोद्धतेन गाथायुगलेन कृतोऽस्ति । यथाजइ वि चरियं इमाणं मनोहरं अस्थि बहुयमन्नं पि । तह वि जिणधम्मपडिबोहबंधुरं किंपि जंपेमि ॥ बहुभक्खजुयाइ विं रसवईए मज्झाओ किंचि भुंजतो । नियइच्छाअणुरूवं पुरिसो कि होइ वयणिज्जो ||
( पृष्ठ - ३, गाथा ३०-३१ ) यद्यपि, उक्तरीत्या नास्त्यत्र ग्रन्थ ऐतिहासिकवृत्तान्ताधिक्यम्, तथापि यावदस्ति तावत्तु सकलमेव पूर्णतया विश्वसनीयमिति स्पष्टं स्वीकारार्हमेव । यतोऽयं ग्रन्थकारः केवलं कुमारपालस्य समानकालीन एव नासीत्, किन्तु तस्य सविशेषपरिचितः अत एव तदन्तरङ्गजीवनवृत्तान्तज्ञाताऽपि समभवत् ।
1
कुमारपालस्य जैनधार्मिकजीवनवृत्त मुल्लिखन्तस्तत्समसमयवर्तिनस्त्रयो लेखका अभूवन् । तत्राद्यस्तु तस्य धर्मगुरुः साक्षात् श्री हेमचन्द्रसूरिरेव । तेन प्राकृतद्व्याश्रयापरनामनि कुमारपालचरिते, तथा श्रीवीरचरित्रेऽपि तद्विषयकः कियान् संक्षिप्तः किन्तु सारगर्भितः समुल्लेखोऽकारि । द्वितीयो लेखको मंत्रियशः पालनामा श्रावकः कविवर आसीत् । तेन कुमारपालस्याध्यात्मिकं जीवनमुद्दिश्य ' मोहराजपराजय' नामकं पञ्चाङ्कं नाटकं व्यरचि । अयं च कविः स्वात्मानं कुमारपालोत्तराधिकारिनृप - अजयदेवचक्रवर्तिचरणसेवित्वेन निर्दिशति स्म । अतोऽयमपि प्रायः कुमारपालसमकालीन एवेति निर्विवादम् । अनेन कविना, कुमारपालद्वारा तत्समग्रराज्यात् प्राणिवध - मांसाशन-असत्यभाषण- द्यूतरमण - वेश्यागमन - परधनापहरण - इत्यादीनि जनसमाजावनतिकराणि दुष्टव्यसनानि यथा सर्वथा बहिष्कृतानि जातानि तत्सर्वं वृत्तान्तं मनोहरया काव्यवर्णनपद्धत्या 'मोहरा - जपराजय' नाटके निर्वर्णितमस्ति । तृतीयो लेखकः प्रस्तुत प्रतिबोधकर्ता सोमप्रभमूरिः । एते त्रयोऽपि विद्वांसः प्रमाणभूता लब्धप्रतिष्ठाथ, अत एतत्कृते वर्णने स्वल्पमपि सन्देहास्पदं मिथ्याभूतं वा कथनं भवेत्; इति न प्रत्येतुं शक्यतेऽस्माभिः ।
एतेषां त्रयाणामपि लेखकानां विश्वस्तात् कथनात् प्रतीयते यत् कुमारपाल एक: परमधार्मिकः परमार्हतो जैननृपोऽभूत् । तेन संपूर्णतया जैनधर्मः स्वीकृतः, जैनधर्मप्रतिपादितान् आचारान् विचारांश्च सम्यग्ररीत्या परिपालनार्थ यथाशक्ति प्रयत्न आचरितः, तथैव तत्तत्त्वप्रचाराय प्रभावसंस्थापनाय च सर्वत्र यथायोग्यमुदारा उद्योगा आरब्धाः सन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org