________________
देवसूरि-हेमचन्द्राचार्यसदृशाः जैनधर्मप्रभावकपुरुषाः, जयसिंहदेव-कुमारपाल-अजयदेव-मूलराज-नामधेयाः क्रमोत्पन्नाश्चत्वारश्चौलुक्यनरवराः, कविसिद्धपालसमो नागरिकप्रवरः, अजितदेव-विजयसिंहनामकं स्वीयगुरुद्वयम् , इत्येवंरूपाणां स्वसमानकालवर्तिनामैतिहासिकपुरुषाणामपि अर्था आलिखिताः सन्ति । ( द्रष्टव्यं परिशिष्टम् । )
एवं कुमारपालप्रतिबोधसहिताः प्रस्तुतग्रन्थकारकृता एते चत्वार एव ग्रन्थाः दृष्टीगोचरमायाता अस्माकमद्यावधि । परन्तु, शतार्थवृत्तव्याख्यायां कुमारपालविषयके अर्थाख्याने ' यदवोचाम' इत्येवं कृत्वा यत् पद्यद्वयं समुद्धृतं सन्दृश्यते तन्न कापि उपर्युक्तासु अस्म
दृष्टासु कृतिषु नयनपथमवतीर्णमस्मदीयम् । अतो ज्ञायत एतयतिरिका ऽन्या ऽपि काचित कृतिरवश्यंभाविनी प्रस्तुतसूरेरिति ।
__ प्रकृतप्रतिबोधस्य रचना मुख्यतया प्राकृतभाषामाश्रित्यैव कृता ग्रन्थकृता, तथापि, अन्तिमे प्रस्तावे कतिचित् कथाः संस्कृतभाषाम् , कियत्यश्च अपभ्रंशभाषामपि आश्रित्य विरचिता उपलभ्यन्ते । तेनास्य ग्रन्थकारस्यैतासां तिसृणां हि भाषाणां मध्ये समानं पाण्डित्यं प्रकटीभवति, इत्यत्र नाशंका अस्माकम् । यद्यपि, एवमुक्तपकारेण, अयं सोमप्रभसूरिः समर्थप्रतिभावान् विद्वान् आसीत्,-तत्र विषये नास्ति कश्चित्सन्देहोऽस्माकम्-तथापि प्रस्तुतग्रन्थे तस्य तादृश्याः प्रतिभायाः प्राञ्जलं प्रमाणं न किमपि समुपलब्धमस्माभिः । अस्ति खल्वस्य रचनाशैली सुबोधा, सरला, साधारणजनहयङ्गमा च, किन्तु विदग्धजनचेतश्चमत्कारिणी तु नास्तीत्येवमस्मदभिप्रायः । इति ।।
अपि च, अस्य ग्रन्थस्य रचनासमयम् ,कर्तुः पाण्डित्यम् , महत प्रमाणं च श्रुत्वा, ज्ञात्वा वा प्रथमक्षणे तु, पुरावृत्तजिज्ञासुजनानां मनसि, इयमेव महती आशा समुत्पद्येत यत्-एतस्मिन् विशाले ग्रन्थे कुमारपाल-हेमचन्द्रसम्बन्धिन्यस्तत्कालभाविन्यश्चान्यान्या अनेका अन्यत्राप्राप्ता इतिवृत्तसंसूचकवार्ताः सन्दृब्धाः भवेयुः । परन्तु, अस्य ग्रन्थस्य साधन्तावलोकने कृते साऽऽशा निराशामात्रमेव प्रतिभास्यति विदुषामिति निवेदयतामस्माकमप्यत्र वाढं निराशा आविर्भवति । यतः, अन्यत्रानुपलब्धानां केषांचिनवीनवृत्तान्तानां संप्राप्तिस्तु आस्तां दूरे; किन्तु, प्रभावकचरित्र-प्रबन्धचिन्तामणि-कुमारपालप्रबन्धसदृशेषु एतस्माद्रन्थादर्वाचीनेषु संक्षिप्तग्रन्थेषु अपि उक्तनृप-सूरिवरविषयको यावान् वृत्तान्तः संप्राप्यते तावानपि प्रस्तुतप्रतिबोधे नोपलभ्यते । इत्यत ऐतिहासिकदृष्ट्या न कश्चिद् विशेषोल्लेखयोग्यो वृत्तान्तो विज्ञायतेऽस्माकमत्र प्रबन्धे ।
परन्तु, तत्र विषये ग्रन्थकारः स्वल्पमपि उपालम्भयोग्यो नास्ति । यतः, तस्य प्रस्तुतग्रन्थप्रणयनप्रयासो न प्रवन्धनायकस्य समस्तजीवनचरितवर्णनमुद्दिश्य, किन्तु केवळ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org