________________
वशादनेकेषु स्थलेषु प्राप्यन्ते ग्रन्थकारेणास्य ग्रथितानि कतिपयानि पद्यजातान्यस्य जनप्रियस्य प्रबन्धस्येति' |
तृतीयो ग्रन्थः शतार्थकाव्यं नाम । अयं ग्रन्थः सोमप्रभाचार्यस्य संस्कृतभाषाज्ञानविषयकमनुपमं पाण्डित्यं प्रकटयति । इदं काव्यं केवलं
'कल्याणसारसवितानहरेक्षमोह कान्तारवारणसमानजयाद्यदेव । धर्मार्थकामदमहोदयवीरधीर सोमप्रभावपरमागमसिद्धसूरे ॥ '
इत्येवंरूपमेकपद्यात्मकमेवास्ति ! परन्तु, अस्यैकस्यैव वसन्ततिलकावृत्तस्य शतसंख्याकैभिन्नभिन्नैरथैर्विलक्षणं विवरणं कृत्वा, इममेकं पद्यात्मकं क्षुद्रकाव्यमपि शतपद्यप्रमाणस्वरूपां खण्डकाव्ययोग्यप्रतिष्ठां प्रापितवान् स महामतिः सूरिसुकृती । अनेनैव प्रगल्भेन कविकर्म - यं सूरिर्विद्वत्समाजे ' शतार्थिकः ' इत्येतेन पाण्डित्यसूचकेन बिरुदेन प्रसिद्धो जातः ।
यथा च
'सोमप्रभो मुनिपतिर्विदितः शतार्थी । ' —मुनिसुन्दरसूरिरचितगुर्वावल्याम् । ततः शतार्थिकः ख्यातः श्रीसोमप्रभसूरिराट् । ' - गुणरत्नसूरिकृत क्रियारत्नसमुच्चये ।
4
एतत्काव्यान्तर्गतान् स्वविवक्षितान् शतमर्थान् प्रकटीकर्तुं स्वयमेव ग्रन्थकारेणैका स्पष्टा व्याख्या विहिता । अस्यां व्याख्यायामादौ पञ्चभिः श्लोकेर्वक्ष्यमाणार्थजातस्यानुक्रमणिका आवेदिता अस्ति, अन्ते च शिष्यमुखव्याजमालम्ब्य पञ्चभिः पद्यैः स्वीया प्रशस्तिरपि संसूचिताऽस्ति । एतत्प्रशस्त्यनुसारेण विज्ञायते यत् ग्रन्थकारो ग्रहस्थावस्थायां प्राजाटजातीयो वैश्योऽभूत् । तस्य पितुर्नाम ' सर्वदेवः,' पितामहस्य च ' जिनदेवः ' आसीत् । जिनदेवः स्वसमय एको लब्धप्रतिष्ठः श्रावकः कस्यचिद् राज्ञो महामात्यश्चास्ति स्म । सोमप्रभण कौमार एव जैनी दीक्षा स्वीकृता । असाधारणबुद्धिबलात् स्वल्पेनैव कालेन सर्वशास्त्रे निपुणत्वं समासाद्य प्रायः सुमध्यम एव वयसि स आचार्य पदसदृशं सर्वोत्तमं पदं संप्राप्तवान् । अस्मिन् शतार्थवृत्तव्याख्यान आदिभागे चतुर्विंशतिजिन-सिद्ध-सूरि- उपाध्याय -मुनिपुण्डरीक गौतम-सुधर्म-पञ्चती-समय-श्रुतदेवी पुरुषार्थ-विधि-नारद - देवविष्णु- बलभद्र- श्रीमद्युम्न-शंख-शिव-गिरिसुता-स्कन्दादीनां जैन-वैदिकादिमतपूज्यव्यक्तीनां क्रमशः व्याख्यानानि विशदीकृत्य, मध्येच हैरम्ब - कैलास-ग्रह- दिक्पाल - जयन्त- घन-मदिरा-कनक - अब्धिसिंह-हय-करि- सरोज-भुजगादिनचेतनाचेतनमसिद्धपदार्थानामर्थाख्यानमुद्घाट्य, अन्ते वादि
१ नि१४५ - १९७ -१२२ संख्याङ्कितपृष्ठेषु मुद्रितानि संस्कृतपथानि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org