________________
वसहस्रश्लोकप्रमाणं प्राकृतभाषामयम् । अस्मिन्नपि ग्रन्थे कुमारपालप्रतिबोधसमाना जैनधर्मतत्त्वप्रबोधनप्रधाना बढ्यः पुराणकथाः कल्पिताः सन्ति । अस्य ग्रन्थस्य रचनाऽपि कुमारपालप्रतिबोधवत्-यथा चाधस्ताद्विज्ञापितमस्माभिः-अणहिल्लपुरपत्तनस्थश्रीसिद्धपालकविवसतावेव समाप्तिं प्रापत् । ग्रन्थान्ते यद्यपि रचनासमयो नोपलभ्यते स्पष्टोल्लिखितस्तथापि पूर्वापरानुसन्धानेन ज्ञायते यत् सा हि प्रथमा कृतिरस्य सूरिवरस्त्र । पत्तनस्थे कस्मिंश्चित्कोशे दृष्टचरोऽस्माकमेको हस्तलेखोऽस्य चरित्रस्येति ।
द्वितीयो ग्रन्थ एकशतपद्यप्रमाणं सूक्तिमुक्तावलिप्रकरणम् । अस्य प्रकरण-ग्रन्थस्य प्रथमपद्यस्य 'सिन्दूरप्रकर' इत्येवंशब्दैः प्रारब्धत्त्वात् ' सिन्दूरप्रकर' इति नाम्ना, तथैव सोमप्रभाचार्यकृतत्वेन शतपद्यप्रमाणत्वेन च 'सोमशतक ' इति नाम्नाऽप्ययं प्रवन्धः प्रसिद्धः प्रतिभाति । अस्मिन् प्रवन्धे भर्तहरिनिर्मितवैराग्यशतकशेल्या अहिंसा-सत्य-अस्तेयशील-सौजन्य-क्षमा-त्याग-वैराग्यादयो विविध विषयाः संक्षेपेण किन्तु सरलेन सरसेन च बन्धेन निबद्धा आसते । हृदयङ्गमभावभरितत्वेन कोमलपदावलिपूरितत्वेन चायं प्रबन्धो न केवलं श्वेताम्बरजैनसंप्रदाय एव जनप्रियो जातोऽस्ति, अपि तु दिगम्बरजैनसंप्रदायेऽपि तथैव प्राप्तसत्कारः प्रतीतोऽस्ति । अनयोरुभयोर्जेनसम्प्रदाययोर्मध्येऽनेकेषां विदुषामितरेषां च कण्ठे कण्ठालङ्कारवद् विराजतेऽद्याप्ययं प्रबन्धः । प्रस्तुत-कुमारपालप्रतिबोधेऽपि प्रसङ्ग१ एनद्रन्थप्रशस्तिरपि प्रायः कुमारपालप्रतिबोधप्रशस्तिसमानैव । तथा हि
चन्द्रार्को गुरुटद्धनभसः कर्णावतंसौ क्षितेधुर्यो धर्मरथस्य सर्वजगतस्तवावलोके दृशौ । निर्वाणावसथस्य तोरणमहास्तम्भावभूतामुभावेकः श्रीमुनिचन्द्रसूरिरपर: श्रीमानदेवप्रभुः ॥
शिष्यस्तयोरजितदेव इति प्रसिद्धः सूरिः समग्रगुणरत्ननिधिर्बभूव । प्रीतिं यदधिकमले मुनिभृङ्गराजिरास्वादितश्रुतरसा तरसा बबन्ध ॥
श्रीदेवमूरिप्रमुखा बभूवुरन्येऽपि तत्पादपयोजहंसाः ।
येषामवाधारचितस्थितीनां नालीकमैत्री मुदमाततान ॥ विशारदशिरोमणेरजितदेवमूरिप्रभोविनेयतिलकोऽभवद् विजय सिंहसूरिगुरुः ।
जगत्रयविजेभिर्विमलशीलवर्मावृतं व्यभेदि न कदाचन स्मरशरैर्यदीयं मनः ॥ गुरोस्तस्य पदाम्भोजप्रसादान्मन्दधीरपि । श्रीमान् सोमप्रभाचार्यश्चरित्रं समतेय॑धात् ॥ . . प्राग्वाटान्वयसागरेन्दुरसमप्रज्ञः कृतज्ञः क्षमी वाग्मी सूक्तिसुधानिधानमजनि श्रीपालनामा पुमान् । यं लोकोत्तरकाव्यरञ्जितमतिः साहित्यविद्यारतिः श्रीसिद्धाधिपतिः कवीन्द्र इति च भ्रातेति च व्याहरत् ॥ सूनुस्तस्य कुमारपालनृपतिप्रीतेः पदं धीमतामुत्तंतः कविचक्रमस्तकमणिः श्रीसिद्धपालोऽभवत् । यं व्यालोक्य परोपकार-करुणा-सौजन्य-सत्य-क्षमादाक्षिण्यैः कलितं कलौ कृतयुगारम्भो जनैर्मन्यते ॥ तस्य पौषधशालायां पुरे णहिलपाटके । निष्प्रत्यूहमिदं प्रोक्तं परार्थान्तं ...........॥ अनाभोगात् किञ्चित् किमपि मतिवैकल्यवशतः किमप्यौत्सुक्येन स्मृति विरहदोषेण किमपि । मयोत्सूत्रं शास्त्रे यदिह किमपि प्रोक्तमखिलं क्षमन्तां धीमन्तस्तदसमदयापूर्ण हृदयाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org