SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ फलवर्द्धिग्रामे चैत्य-बिम्बयोः प्रतिष्ठा कृता । तथा आरासणे च श्रीनेमिनाथप्रतिष्टा कृता । चतुरशीतिसहस्रप्रमाणः स्याद्वादरत्नाकरनामा प्रमाणग्रन्थः कृतः । ३ विजयसिंहसम्बन्धी वैक्रमीयः १२०६ वर्षीय एकः शिलालेख आरासणतीर्थस्थजैनमन्दिरे सन्तिष्ठते (-द्रष्टव्यो मत्संगृहीतः प्राचीनजैनलेखसंग्रहः; लेखाङ्कः २८९)।-धर्मसागरगणी निजपट्टावल्यामिमं विजयसिंहसूरिं बालचन्द्ररचित-विवेकमञ्जरीनानो ग्रन्थस्य शोधकत्वेन निर्दिदेश । तचिन्त्यम् । यतो नायं विजयसिंहः तदन्थसंशोधकः, किन्तु नागेन्द्रगच्छीयो विजयसेननामा अपरः कश्चित्सरिः तत्संशोधनं कृतवान् ।-द्रष्टव्यः पिटर्सनपण्डितविवृतः तृतीयरिपोर्टनामकः प्रबन्धः, पृ. १०३। ४ भद्रेश्वरसूरिणा स्वगुरुश्रीवादिदेवसूरीणां स्याद्वादरत्नाकरविरचनासमये प्रभूतं साहाय्यं समर्पितम् । तथा तेषां गुरूणां स्वर्गमनानन्तरमनेनैव विदुषा तत्पट्टोऽलंकृतः । श्रीशान्तिनाथमहाकाव्यप्रणेता मुनिभद्रसूरिरपि अस्यैव सूरेः सन्तानीयोऽभवत् । ५ रत्नप्रभसूरिणा रत्नाकरावतारिकानामा सुज्ञातस्तर्कग्रन्थः प्रणीतः । उपदेशमालावृत्तिप्रभृतयोऽपरेऽपि प्रसिद्धा ग्रन्थास्तत्त्रणीता उपलभ्यन्ते । ६ गुणचन्द्रेण हैमविभ्रमनामैको व्याकरणविषयो लघुरपि सोपयोगी ग्रन्थः प्राणायि । ७ पूर्णदेव-रामचन्द्रनामानौ गुरुशिष्यौ जावालिपुर (जालोर) समीपस्थसुवर्णगिरिपर्वतवतिजैनमन्दिरगत एकस्मिन् शिलालेखे व्यावर्णितौ स्तः । द्र० प्राचीनजैनलेखसंग्रहः, ले. ३५२ । ८ जयमङ्गलसूरिणा मरुदेशस्थसुंधानामकपर्वतवर्तिनी चाचिगदेवसत्का प्रशस्तिनिर्मिता । ९ सोमचन्द्रसूरिः वृत्तरत्नाकरनामकसुप्रसिद्धच्छन्दोग्रन्थस्य सुबोधिनी वृत्ति विहितवान् । १० रामभद्रविदुषा प्रबुद्धरौहिणेयाभिधानं विविधस्निग्धरसवैदग्ध्यनिधानं नाटकं विरचितमस्ति। ११ जगच्चन्द्रसूरिः-क्रियाशिथिलमुनिसमुदायं ज्ञात्वा गुर्वाज्ञया वैराग्यरसैकसमुद्रं चैत्रवालीयदेवभद्रोपाध्यायं सहायमादाय क्रियोद्धारमकार्षीत् । ततश्च तस्य क्रियायामौय्याद् 'हीरला जगचन्द्रसूरिः' इति ख्यातिर्बभूव । तथा यो यावजीवं आचाम्लतपोऽभिग्रहात् द्वादशवर्षैस्तपाविरुदमाप्तवान् ।] अयं हि सोमप्रभाचार्यस्तपागणनाम्नः सुप्रसिद्धगच्छस्य मूलपट्टपरंपरायामेकः पट्टधर आचार्यो बभूव । तेनास्य सुगृहीतं नामधेयं सर्वेषु तपागच्छीयगुर्वावलिप्रबन्धेषु नियमेन संप्राप्यते । अत एतदुक्तं भवति-जैन साहित्याभिज्ञानां पण्डितानामयं सूरिन सुज्ञातनामेति न । गुर्वावल्यादिप्रवन्धानामुल्लेखानुसारेण श्रीमहावीरपट्टपरंपरायां चत्वारिंशे पट्टे प्रतिष्ठित एषः सूरिरिति। सोमप्रभाचार्यकृता ग्रन्थाः । प्रस्तुतकुमारपालपतिबोधग्रन्थव्यतिरिक्ताः सोमप्रभाचार्यकृता अन्ये त्रयो ग्रन्थाः संप्राप्यन्ते सांप्रतम् । तेषु सुमतिनाथचरित्रनामकः प्रथमोल्लेखयोग्यः। अस्मिश्चरित्रे सुमतिनाथनाम्नः पञ्चमजिनवरस्य पौराणिक चरितं निर्वर्णितमस्ति । चरित्रं चेदं प्रायः सार्द्धन Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy