SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ प्रस्तुतग्रन्थकारलेखानाम् , इतरग्रन्थकुलेखानां चानुसन्धानेन सोमप्रभाचार्यस्य गुर्वा-- दिपरंपरासम्बन्धज्ञापको वंशवक्ष एतादृशः सर्वदेवसूरि यशोभद्र नेमिचन्द्र मुनिचन्द्र मानदेव आनन्दसूरि अजितदेव वादी देवसूरि गुणचंद्र पूर्णदेवं महेश्वर विजयसिंह भद्रेश्वरै सोमप्रभ रत्नप्रभ मणिरत्न रामचन्द्र जयप्रभ हेमचन्द्र मणिरत्न जयमंगल रामभद्र जगच्चन्द्र सोमचन्द्र [एतद्वक्षगतानां कतिपयपण्डितानां संक्षिप्तः परिचयो यथा १ 'मुनिचन्द्रसूरिः-स च भगवान् यावजीवं सौवीरपायी, प्रत्याख्यातसर्वविकृतिकः श्रीहरिभद्रसूरिकृतानेकान्तजयपताकाद्यनेकग्रन्थानां पञ्जिकादिविधानेन तार्किकशिरोमणितया ख्यातिभाक् । अनेन चाऽऽनन्दसूरिप्रभृतयोऽनेके निजबान्धवाः प्रव्राज्य सूरीकृताः । अयं च सूरिः श्रीनेमिचन्द्रसूरिगुरुभ्रातृश्रीविनयचन्द्रोपाध्यायस्य शिष्यः श्रीनेमिचन्द्रसूरिभिरेव गणनायकतया स्थापितः । अस्य विक्रमकालाद् ११७८ मितेऽब्दे स्वर्गमनमभूत् ।' २ वादिदेवसूरिभिः श्रीमदणहिल्लपुरपत्तने जयसिंहदेवराजस्य राजसभायां दिगम्बरचक्रवर्तिनं कुमुदचन्द्राचार्य वादे निर्जित्य श्रीपत्तने दिगम्बरप्रवेशो निवारितः । तथा वि. १२०४ वर्षे सद्यः संस्कृतगापद्यलहरीपूरेण यस्य प्रभाऽऽक्षिप्ता वादिपरंपरा तृणतुलां धत्ते स्म दूरीकृता ॥ श्रीमानभूद् विजयसरिरमुप्य शिष्यो येन x x x स्मरस्य शरान् गृहीत्वा । क्लृप्तं चतुर्भिरनघं शरयन्त्रमये विश्वं तदेकविशिखेन वशं च निन्ये ॥ श्रीहेमचन्द्रसूरिर्बभूव शिष्यस्तथापरस्तस्य । भवहतये तेन कृतो द्विसन्धानप्रबन्धोऽयम् ॥ एकाहनिष्पन्नमहाप्रबन्धः श्रीसिद्धराजप्रतिपन्नबन्धुः। श्रीपालनामा कविचक्रवर्ती सुधीरिमं शोधितवान् प्रबन्धम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001873
Book TitleKumarpal Pratibodh
Original Sutra AuthorSomprabhacharya
AuthorJinvijay
PublisherCentral Library
Publication Year1920
Total Pages564
LanguagePrakrit
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy