________________
हति । तथापीदं निवेदनीयं, यत् तदुपरिष्टात्ताडपत्राद् विशेषशुद्धं प्राचीनतरं च । यावदस्माभिातुं शक्यते, अस्य ग्रन्थस्य संपूर्णरूपेण स एक एवोपरि निर्दिष्ट आदर्शः संप्राप्यते सांप्रतं सर्वसंसारे । तस्य ह्यशुद्धबहुलत्वात् , क्यापि क्वापि नष्टभ्रष्टपाठत्वाच्च सविशेष आयाससञ्जातोऽस्माकमस्मिन् संस्करणकरणे । अतो यत्र कचन या काचित् संशोधनाशुद्धिर्विदुषां नयनपथमवतरेत् , सा संशोधनीया सहृदयैर्विद्वद्वरैरिति ।
ग्रन्थस्यास्य विधाता त्रयोदशशताब्दीवर्ती सोमप्रभसूरिनामैकः सुप्रसिद्धजैनाचार्यः । तेनायं ग्रन्थो वैक्रमे १२४१ वर्षे-अर्थात् यशश्शेषे कुमारपालनरेश एकादशवर्षानन्तरमेव विनिर्मितः । एतेनेदं स्पष्टमेव यदयं ग्रन्थकारः आचार्यहेमचन्द्र कुमारपालनृपयोः कियन्तं कालं यावत् समसमयवर्तित्वेन विद्यमान आसीत् ।
ग्रन्थकारणायं ग्रन्थो मुख्यतया श्रेष्टिमुख्य-श्रावक-अभयकुमारतनूजानां हरिश्चन्द्रादिश्रीदेवी-प्रभृतीनां प्रीत्यर्थ निरमायि । तैर्हि अस्य ग्रन्थस्य भूयिष्ठानि पुस्तकानि लेखयित्वा नेकेषु ग्रन्थागारेषु, विद्वद्वरयतिवर्गेभ्यश्च, उपदीकृतानि । अयमभयकुमारश्रेष्ठी, अस्यैव ग्रन्थस्योल्लेखानुसारेण (पृ. २१९-२०) कुमारपालस्थापितस्यानाथासमर्थजनपोषकस्य सत्रागारस्य, अन्येषां च तादृशां धर्मादायजीविनां कार्यविभागानामधिष्ठाताऽऽसीत् ।
यस्य गृहस्थस्य वसतौ (जैनमन्दिरे, उपाश्रये वा) उषित्वा ग्रन्थकारेणायं ग्रन्थः समाप्तिं नीतः, स कविसिद्धपालः कुमारपालनृपस्य परमप्रीतिपात्रं मित्रमासीत् । तत्पिता कविचक्रवर्ती श्रीपालो गुर्जरराष्ट्रस्य तत्कालीनो महाकविः श्रेष्ठनागरिकश्चाभूत् । चौलुक्यचक्रवर्ती जयसिंहदेवस्तं 'कवीन्द्रः' इत्येवंरूपां राजमानोपलक्षिकां महतीं पदवी प्रदत्तवान् , तथा 'भ्राता' सदृशेन सौहार्दपूर्णेन सम्बोधनेन च सम्बोधितवान् । अयं हि कविवरः सोमप्रभाचार्यस्य गुरुटद्धानां वादिदेवसूरिप्रभृतीनां परमभक्त आसीत् । ततस्तदीयं निखिलं कुटुम्ब तस्मिन् देवमूरिसाधुसमुदाये भक्तिप्रवणं भवेत् , स च समुदायोऽपि तस्मिन् कविकुटुम्बे धर्मस्नेहस्निग्धः स्यात्, इति स्वाभाविकमेव । अनेनैव कारणेन सोमप्रभाचार्यादय एतत्समुदायवर्तियतयोऽणहिलपुरे बहुलतयाऽस्यैव कविकुटुम्बस्य वसतिगृहे निवासं कुर्वन्तो विज्ञायन्ते स्म । प्रकृतग्रन्थकारः स्वनिर्मितं सुमतिनाथचरित्राभिधमपरमपि विशालं ग्रन्थं तत्रैव स्थाने संस्थाय समाप्ति नीतवान् । तथैव हेमचन्द्राभिधानेन सोमप्रभाचार्यगुरुसहोदरेण कविवरेण स्वकृतं नाभेयनेमिद्विसन्धाननामकं काव्यमपि प्रायस्तत्रैव सम्पूर्णतां प्रापितं स्यात् । यतस्तस्य संशोधनं कविचक्रवर्तिश्रीपालेन स्वयमकारि, इत्युल्लेखस्तत्काव्यप्रान्ते' स्पष्टं प्राप्यते ।
१ एतत्काव्यप्रान्तगता प्रशस्तियथाभक्त:श्रीमुनिचन्द्रमूरिसुगुरोः श्रीमानदेवस्य च श्रीमान् सोऽजितदेवसरिरभवत् षट्तर्कदुग्धाम्बुधिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |