SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ -IV.$13 : Verse 54] कुवलयमालाकथा ४ * 71 स्थानं निवेश्य धर्म पप्रच्छ । सधैरपि निजनिजागमानुसारेण धर्मो निवेदितः परं तस्य चेतसि स्थिति न । बबन्ध । ततो राशा जैनमुनयः पृष्टाः । 'यूयं निजं धर्म निवेदयत । ततो गुरुणा 'यो धर्मः कुलदेवतया 3 निवेदितः स एव धर्मो धर्मसारः' इति प्ररूपितः। ततोभूपः कुमारं विलोक्य बभाषे । 'सम्यगेवैष मोक्ष- 3 मार्गक्षम इति । सर्वेषामपि धर्माणामेष एव मुख्यः । एष एव कुलदेवतया दत्तः । इक्ष्वाकूणामयमेव कुलधर्मः।' कुमारेण विशप्तम् । 'यदाहं तुरङ्गमाविष्टस्तदैतस्यैव धर्मस्य बोधार्थ देवेनापहृतः। मयारण्ये 6 मुनिसिंहदेवा विलोकिताः पूर्वभवसंगताः पूर्वभवे ऽप्यमुमेव धर्ममाराध्य ते खर्ग गतवन्तः। तैरप्येनं 6 धर्म निवेद्य कुवलयमालाबोधार्थमस्मि प्रेषितः । येन च शुकेन तं देशं गतानामस्माकं प्रवृत्तिर्भवतां पुरो निवेदिता तेनाप्ययमेव सार्वज्ञो धर्मो दृष्टः। 9 रजोहृतिः कराम्भोज भेजे यस्य नरेश्वरः । पुरन्दरो ऽपि तं स्तौति सादरं विगतादरम् ॥ ३६॥ ५ स्वयं स्वामी जगन्नाथ पाथोनाथः कृपाम्बुनः । सभायामादिशधर्मममुमेव जिनेश्वरः ॥ ३७॥ साधवो ऽपि मया दृष्टा धर्मे ऽत्र स्थितिशालिनः । उत्पाद्य केवलज्ञानं महोदयपदं ययुः॥३८॥ तेन विज्ञप्यसे तात जैनधर्मः सुशर्मदः । सर्वेषामेव धर्माणामयमेव मनोरमः ॥ ३९॥ 12 दुर्वारवारणाकीर्ण रङ्गतुङ्गतुरङ्गमम् । भवेद्राज्यमपि प्राज्यं न धर्मस्तु जिनोदितः ॥४०॥ ६१२) तावद्देव भवता भवतापहारी दुर्लभो जिनधर्मः प्राप्तस्ततो निपुणेन त्वयायं विधेयः।' राजा 16 तथा' इति प्रतिपद्य प्रोवाच । 'अहो, सत्यमेतद्यदेष धर्ममार्गो दुर्लभः। तथा वयं पलितकलितशिरसः15 संजाताः परं धर्माणामन्तरं नावगतम्। 'भोस्तपोधनाः, तत्रभवतां भवतां स्थानं न वयं जानीमः। गुरु णोक्तम् । 'राजन्, बाह्योद्याने कुसुमगृहचैत्ये ऽस्ति ।' राज्ञोक्तम् । 'व्रजत यूयं स्थानं कुरुत कर्तव्यानि, 18 प्रभाते समेष्यामि' इति वदन् कुमारमहेन्द्राभ्यां समं क्षमापतिरुत्तस्थौ साधवोऽपि स्वं स्थानमलंचक्रुः।18 ततो दृढवर्मावशेषमपि भवस्वरूपं मायागोलकमिव, इन्द्रजालमिव, आदर्शप्रतिबिम्बमिव नेत्ररोगिविभावरीवरयुगलावलोकनमिव, मरुमरीचिकानिचयाघभासनमिव गन्धर्वपुरनिरूपणमिव, अविचारितरामणीयकमिवा किंचित्करमनुपादेयं विचिन्त्य संजातवैराग्यः कुवलयचन्द्राय सप्ताङ्गं राज्यं ददी, इति 21 च शिक्षां तं प्रति जगाद । 'वत्स कुवलयचन्द्र, शातयुक्तायुक्तस्य पठितसर्चशास्त्रसार्थस्य तव धवलितघषलनमिव पिष्टपेषणमिव विभूषितविभूषणमिव शिक्षाप्रदानं, परं पुत्रप्रीतिौ मुखरयति । दुरन्तदुरितोपायाश्चपलाचपलास्तथा। स्त्रियः श्रियश्च तत् क्वापि मा भूयास्तद्वशंवदः॥४१॥ 24 उच्चस्तरं पदं प्राप्य त्वया कार्यविदा सदा । गुरवो न लधुत्वेन दर्शनीयाः कदाचन ॥४२॥ त्वया बद्धानुरागेण पालनीया निजाः प्रजाः। यतः प्रजालता नीतिनीरसिक्ताः फलन्त्यमूः ॥ ४३ ॥ अन्तरङ्गारिषद्धगंजयाय भवतादरः । शास्त्रे शस्त्रे च कर्तव्यो बहिरङ्गारिशान्तये ॥४४॥ 27 आराध्या सर्वदा विद्यानवद्याः स्थविरास्त्वया । मजतां ध्यसनाम्भोधी वृद्धसेवा हि मङ्गिनी ॥४५॥ राज्यश्रीः काममाहेयी न्यायगोभक्तपोषिता। निकामं कामदुग्धानि प्रसूते वसुधाभुजाम् ॥ ४६॥ 30६१३) इति शिक्षां दत्त्वा दत्तदीनजनदानः संमानितस्वजनः कृतचैत्याष्टाहिकामहः सुतकारितां 30 शिबिकामारुह्य नृपो गत्वा कुसुमगृहचैत्ये तस्यैव गुरोरन्तिके प्रावाजीत् । तदने करुणावता गुरुणा मनुष्यभवोपरि युगसमिलापरमाणुदृष्टान्तौ प्ररूपितौ । तथा हि । समग्रद्वीपवा(नां पर्यन्ते ऽस्ति महोदधिः । स्वयंभरमणो नाम वलयाकारतां गतः॥४७॥ 33 देवः कोऽपि युगं प्राच्या प्रतीच्यां समिलां पुनःस्थापयेदथ सा भ्रष्टा जले तत्रातलस्पृशि ॥४८॥ अपारे चानिवारे च परितोऽपि चलाचला। युगे चलाचले योगं लभते न कथंचन ॥ ४९ ।। युग्मम् ॥ प्रचण्डवातवीचीभिः प्रेरिता सा कथंचन । युगे न लभते योगं जन्तुर्न तु जनु णाम् ॥ ५०॥ 36 [युगसमिलादृशान्तः।] तथाहि त्रिदृशः कश्चिदारासनहषन्मयम् । स्तम्भं महान्तमाचूर्य दृग्निक्षेपनिभं व्यधात् ॥ ५१ ॥ तपूर्ण स समादाय तूर्ण गत्वा सुराचले । चूलिकायामवस्थाय नलिकां स्वकरे ऽकरोत् ॥ ५२ ॥ 39 तत्रस्थितेन फूत्कृत्य तया ते प्रचुरोजसा । ते ऽणवः पातिताः सर्वे दिशासु चतसृष्वपि ॥ ५३॥ कल्पान्तकालप्रोन्मीलदुद्दाममरुता हताः। सर्वे ऽपि पश्यतस्तस्यादृश्यास्ते जज्ञिरे क्षणात् ॥ ५४॥ 6) PB तुरंगमाविश्य एतस्यैव. 8) P सर्वशो धर्मः, 9) B नरेश्वर, B विन (ने?) यादरं for विगतादरं. 10) B जगन्नाथ:19) B नेत्ररोगिणा (णा added above the line) विभावरी. 21) सप्तांगराज्य. 30) 'चैत्याष्टाहिकस्तत्कारिता. 36)0 adda here [युगसमिलावृष्टान्तः] at the end of verse No 50.39) Pom. स. 40) Fपृत्कृत्य, । ति for . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001869
Book TitleKuvalayamala Katha Sankshep
Original Sutra AuthorN/A
AuthorUdyotansuri, Ratnaprabhvijay
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1959
Total Pages394
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy