________________
-72
रत्नप्रभसूरिविरचिता [IV. 13 : Verse 551 सुपर्वपर्वतभ्रष्टैस्तैरेव परमाणुभिः । स सुपर्वापि नो कर्तुं समर्थस्तं पुनर्यथा ॥ ५५॥ दुष्कर्मवशतो भ्रष्टस्तथा मानुषजन्मनि । निस्तुषं मानुषं जन्म जन्मी न लभते पुनः ॥ ५६ ॥
परमाणुदृष्टान्तः। 3 ततः स राजर्षिर्द्विविधशिक्षाविचक्षणः चारुचारित्रं समाचरन् गुरुणा सह विजहार । कुवलयचन्द्रस्यापि निखिलभूपालमण्डलीमुकुटकोटिनिघृष्टचरणारविन्दस्य विपुलामासमुद्रमेखलां पालयतः प्रभूता वासरा
ध्यतीयुः।
६१४) अत्रान्तरे पद्मकेसरसुरः स्वानि च्यवनचिह्नानि परिज्ञाय दुर्मनाश्चिन्तयामास ।
'खेदं मा व्रज जीव त्वं दीनत्वं हृदि मा व्यधाः । तावदेव हि भुज्येत यावदायुरुपार्जितम् ॥ ५७॥ 9 ततः संप्रति कालोचितं क्रियत इत्यागत्यायोध्यायां सुरः कुवलयचन्द्र-कुवलयमालयोः पुरः कथ- 9 यामासेति । 'यथामुकमासे ऽमुकदिवसे युवयोः सूनुभविष्यामि तावदिमानि पद्मकेसरनामाङ्कितानि
कटककुण्डलहारार्धहारादीनि भूषणानि स्वीक्रियन्ताम् । तानि च प्रसृतवुद्धिविस्तरस्य मम तनौ 12निवेश्यानि, येनैतानि चिरपरिचितानि प्रेक्षमाणस्य मम जातिस्मृतिरुत्पद्यते' इत्युदित्वार्पयित्वा च12 त्रिदशः स्वस्थानमागतः। ततः कियद्भिदिनैः सुरश्युत्वा कुवलयमालाया गर्ने सुतत्वेनोदपद्यत । ततः
सापि समये पवित्रं पुत्रं प्रासूत । पित्रा मध्ये पुरं विरचय्य वर्धापनकमहोत्सवे संजाते द्वादशे दिवसे 15 तस्य मुनिना पूर्वमुदितमभिधानं 'पृथ्वीसारः' इति विदधे । स कुमारः कलाकलापेन यौवनेन च16 स्वीचके । तस्य पितृभ्यां तान्याभरणानि समर्पितानि । तानि पश्यत एव तस्य प्रागपि कापि दृष्टान्येतानीत्यहापोहवतो मूर्खाजनि, जातिं च सस्मार। ततः शीतेन तोयेन वायुना चाश्वासितो लब्धचैतन्यो 18 भ्याविति । 'अहो, तत्र तानि सुखान्यनुभूय पुनरीहशानि तुच्छानि मनुजजन्मजातानि जीवोऽभिलषति, 18
इति धिर मोहं धिकच संसारावासं यत्र निरन्तरमाधिव्याधिव्यथितो जनः, तदहं संसारदुःखपरंपरापराभवविधायिनी प्रव्रज्यां गृहीत्वात्मानं साधयिष्ये' इति चिन्तयन् स वयस्यैर्भणितः । 'कुमार, तव स्वस्थशरीरस्य किमेतदत्याहितम् । तेनोक्तम् । 'ममाजीर्णविकारेणैषा भ्रमिरत्पन्ना, तेन न पुनरात्म-21 स्वभावो निवेदितः।' एवं व्रजत्सु दिनेषु कुवलयचन्द्रेणोक्तम् । 'कुमार, राज्यं गृहाण, अहं प्रव्रज्यां ग्रहीष्ये । कुमारेणोक्तम् । 'महाराज, त्वमेव राज्यं प्रतिपालय, अहं पुनर्दीक्षां स्वीकरिष्ये ।' राज्ञादिष्टम् । 34 'अद्यापि बालस्त्वं राज्यसुखमनुभव, वयं पुनर्भुक्तभोगा दीक्षा ग्रहीष्यामः' इति कुमारं प्रतिबोध्य 34
भूपतिर्निर्विण्णकामभोगः प्रव्रज्याग्रहणमनाः कस्यापि गुरोरागमनमभिलषस्तस्थौ। अन्यदिने दत्तमहादानः संमानिताशेषपरिजनः कुवलयमालया समं धर्मवार्ता वितन्वानः क्षमाधनः सुत्वा पाश्चात्यया27 मिनीयामे प्रथममेव प्रबुद्धश्चिन्तयामासेति ।
६१५) 'दुष्प्रापं प्राप्य मानुष्यं दक्षिणावर्तशववत् । विचारचतुरैश्चिन्त्या हेयोपादेयहेतवः।। ५८॥ मानुषत्वमतिश्रेष्ठं कुले जन्म विशेषतः। धर्मः कृपामयो जैनत्रयमेतद्धि दुर्लभम् ॥ ५९॥ धन्यास्ते पुण्यभाजस्ते निस्तीर्णस्तैर्भवार्णवः। ये संगमपरित्यागनिगमाध्वगतां ययः ॥ ६॥ 30 त एव कृतिनो ऽभूवन् भुवनश्रीविशेषकाः। जिनेन्द्रजल्पिता सर्वविरतियैरलंकृता ॥१॥ धन्यानि तानि क्षेत्राणि यत्र जैनमुनीश्वराः । भ्रमन्ति विभ्रमत्यक्ता मुक्ताहाराः शुभाशयाः ॥ ६२ ॥ पुण्यतिथिस्तिथिः सा का सा वा वारोऽपि का सच। तन्मुहूर्ते च किं भावि ममामोदप्रमोदकृत् ॥६३।। 33 यस्मिन् पवित्रचारित्रचित्रभानुप्रभोदयात् । मन्मनःसरसीजन्म स्मेरतामुपयास्यति ॥ ६४॥ युग्मम् ॥
प्रधानधान्यतो येन दीक्षाशिक्षाशिलोपरिक्षालयिष्ये मनोवासः कुवासमलिनं कदा॥६५॥ 86 इति चिन्तयतस्तस्य भूपतेःप्राभातिकमङ्गलपाठकः पपाठ ।
36 _ 'हतसंतमसानीकः पातितनक्षत्रसुभटसंघातः । प्रसृतप्रतापनिकरः शूरः पृथिवीपतिरुदेति' ॥६६॥ एतदाकर्ण्य राशा चिन्तितम् । 'अहो, सुन्दरोपश्रुतिः सुतराज्याय। 39 नमस्ते लोकनिर्मुक्त नमस्ते द्वेषवर्जित । नमस्ते जितमोहेन्द्र नमस्ते शानभास्कर' ॥ ६७ ॥ १० इति वदन भूपतिः शयनीयादुत्तत्स्थौ । ततो 'नमो जिनेन्द्रेभ्यः' इति वदन्ती संभ्रमपरा त्रिदशतटिनी
30
2) B मानुषजन्मनः (partly on the margin). 5) 0 चरणार वृन्दस्य, B.adds समुद्र before समुद्र मेखला, P चालयतः for पालवतः. 13) B inter. पवित्रं * पुत्रं. 14) B महोत्सवं. 24) PB om. दीक्षा ग्रहीष्यामः. 25) महादानसन्मानिताशेष, P वितन्वत for वितन्वावः, B adds सुष्वाप before सुप्तवा, 33) POस for सा बा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org