________________
18
*70
रत्नप्रभसूरिविरचिता
[IV.88 : Verse 201 प्रणतम् । ताभ्यामुक्तम् । 'वत्स, अतीव दृढकठिनहृदयो भवान् बभूव । आवां पुनस्त्वस्नेहनिर्भरप्रसृतदु:- 1 सहविरहज्वालावलीदुःखितौ सजीवमप्यात्मानं मृतमिव मन्यमानौ स्थितौ । ततो वत्स, चिरं जीवास्माकं जीवितेन ।' राज्ञा पृष्टम् । तदा तुरगेणापहृतः कुत्र गतः, कुत्र स्थितः, इत्येतत्सर्वमपि स्वरूपमावेदय। 3 एतदाकर्ण्य कुमारेण यत्र यत्र भ्रान्तं यत्र यत्र यद्यदृष्टमनुभूतं च तदखिलमपि विज्ञप्तम् । इतश्च मध्याहाघसरे मागधेन निवेदिते तत्रैव विहितमजनभोजनौ दृढवर्मकुवलयचन्द्रौ सुखं समासीनौ क्षणं 6 स्थितौ । ततः,
दृढवर्मसुतः शस्ते मुहूर्ते गणकोदिते । गजपृष्ठप्रतिष्टेन भूमिभ ग्रयायिना ॥ २०॥ दुर्वारैर्वारणैरश्ववारैर्वारितवैरिभिः । मनोरमैः स्यन्दनौधैः संनद्धैः सुभटैः समम् ॥२१॥ प्रवाद्यमाननिःस्वानस्वानडम्बरिताम्बरः । विधीयमानमाङ्गल्योपचारश्चतुरानिमः॥२२॥ आकर्णयन्नुभाकर्णिबन्दिवृन्दभवां स्तुतिम् । वनीपकानां दीनानां ददद्दानं पदे पदे ॥२३॥ जयकुञ्जरमारूढः पश्यन् मश्वान् प्रपञ्चितान् । मुक्तावचूलसश्रीकविचित्रोल्लोचरोचितान् ॥२४॥ वृद्धाङ्गनाशिषो गृह्णन् प्रतीच्छन्नक्षताक्षतान् । समाससाद प्रासादं विशदं सप्तभूमिकम् ॥ २५ ॥ 12
षभिः कुलकम् ॥ ६९) तस्मिन्नेव मुहर्ते श्रीदृढवर्मणा कनकमयासने निवेश्य कुमारस्य जयजयशब्दपूर्यमाणनभस्तलं चारुचामीकरविरचितैः कलशैः सत्तीर्थसमानीतोदकसंभृतैः सर्वलोकप्रत्यक्ष युवराजपदाभिषेकश्चके। 15 ततस्तेन राजलोकेन नमस्कृतः कुमारः । राज्ञा प्रोक्तम् । 'वत्स कुमार, पुण्यवानस्मि, यस्य भवादृशस्तजुजः। अद्यैव चिरसंचितो मनोरथरथः परां प्रमाणकोटिमधिरूढः। अतः प्रभृति त्वमेव राज्यभारधौरेयः। ततः प्रीतिप्रकर्षेण रोमहर्षयुतो नृपः। राज्यप्रधानप्रत्यक्षं तनूजं समशिक्षयत् ॥२६॥
18 राज्यभारधुराधुर्ये वर्ये वत्स गुणैस्त्वयि । अद्यापि न परं लोकं साधये तेन मेत्रपा ॥२७॥
विश्वम्भरायास्त्वय्यद्यावनं कलितयौवने । मयि वत्स पुनर्युक्तं वनं गलितयौवने ॥ २८॥ 21 परं भोगफलस्यास्य कर्मणः शेषमस्ति से । यावत्तावत्त्वया राज्ये भूयतां सहकारिणा' ॥२९॥ 21 कुमारोऽपि पादौ प्रणम्य प्रोवाच । 'यत्किचित्तातः स्वयमादिशति तदवश्यं मया विधेयम्' इति । ततः कुवलयमालया गुरुजनस्य प्रणतिश्चक्रे । गुरुजनेनाप्यभिनन्दिताशीर्वचोभिः । कुमारो ऽथ यौवराज्यपदं 24 पालयन् स्वगुणैः सर्वसंमतो बभूव । अपि च । .
24 सितैर्निरीक्षितैस्तस्य चरितैर्जल्पितैरयम् । राजलोकः समग्रो ऽपि सर्वदानन्दभूरभूत् ॥ ३०॥
धिनोत्यखण्डधाराभिर्धरां धाराधरो यथा । तथायमर्थसंघातैरत्यर्थ सार्थमर्थिनाम् ॥ ३१ ॥ 57 १०) ततश्च कियत्यपि गते काले सुखसंदर्भमये व्यतीते राज्ञा भणितम् । 'वत्स कुवलयचन्द्र,
एष कालो मम धर्मस्याराधने ततस्तं करोमि ।' कुमारेण प्रोक्तम् । 'महाराज, युक्तमुक्तम्, परमेकं पुनविज्ञपये धर्मः कुलोचित एव कर्तव्यः।' राज्ञोक्तम् । 'बहवो धर्मोपायाः, कोऽयं कुलोचितः।' कुमारणो30 क्तम् । 'य इक्ष्वाकुवंश्यैः पूर्वजैः कृतः स एवोचितः। तदाकर्ण्य राजा धर्मपरीक्षार्थ देवतागृहे कुलदेवतां 30 श्रियमाराधयामास । ततस्तस्य राज्ञः कुसुमनस्तरे स्थितस्य षड् यामा व्यतीताः । अथ निशीथे गगन
तले वाणी समुल्ललास । 'भो नरेश, यदि भवतो धर्मसारेण कार्य तत इक्ष्वाकुवंश्यकुलधर्म गृहाण ।' 33 इति वदन्त्या कुलदेवतया श्रिया प्रत्यक्षीभूय हेमपट्टिकाखण्डं ब्राह्मीलिपिसनाथं समान्तर्धानं विदधे । 33
तन्निरीक्ष्य नरेश्वरः प्रमुदितः प्रगे कुमारमाकार्य सर्वमपि निशावृत्तं निवेदयामास । ततः कुमारः पित्रादेशेन तत्र लिपि वाचयितुं प्रवृत्त इति ।
'शानदर्शनचारित्ररत्नत्रयमनुत्तरम् । साधनं मोक्षमार्गस्य निधानं शिवशर्मणाम् ॥ ३२॥ न हिंसा यत्र नासत्यं न स्तेयं ब्रह्मपालनम् । परिग्रहप्रमाणं च रात्रिभोजननिवृतिः ॥ ३३ ॥
सर्वदोपविनिर्मुको यत्र देवो जिनेश्वरः। महाव्रतधरो धीरो गुरुर्धर्मोपदेशकः ॥ ३४॥ 99 पूर्वापराविरुद्धश्चागमः श्रीशिवसंगमः । मुक्तये धर्म एवायं प्रतीपस्तु भवभ्रमौ ॥ ३५ ॥
६११) एवं वाचिते धर्मस्वरूपे राज्ञोक्तम् । 'अहो, अनुगृहीता वयं भगवत्या कुलदेवतया । एतत्पुनर्न ज्ञायते, के ते धर्मपुरुषाः, येषामेष धर्मः।' कुमारेणोक्तम् । 'दर्शनान्याकार्य धर्मपृच्छा विधीयते, 42 यस्य कस्यचिद्धर्म एतल्लिपिसंवादी भवति स एव साध्यते । ततो भूपतिर्दर्शनप्रधानपुरुषानाकार्य यथा-42
RA
39
1B वत्स तवातीव (on the margin). 8) B दुर्वारिवारण'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org