________________
.57
-III. 4g : Verse 361]
कुवलपमालाकथा 1च शबरवेषमङ्गीचक्रतुः । तयोर्महाधिराजेन शबरेण महाशाबरी विद्या न्यवेदि । ताभ्यां मौनवतं प्रतिपद्य 1 सद्यः श्रीभगवान्नाभिभवो गुरुवर्गः साधर्मिकलोकश्च ववन्दे । विद्याधराणां मध्ये कृताञ्जलिनैकेन विद्याघरेणोक्तम् । 'भो लोकपाला विद्याधराश्च श्रूयताम् । पूर्व शबरशीलो विद्याधरशेखरः सर्पसिद्धशाबर- 3 विद्याकोशः सप्रभावश्चिरं राज्यं परिपाल्य समुत्पन्नवैराग्यरङ्गितः प्रतिपन्नश्रीजिनधर्मः सर्वसंगं परिस्यज्यात्रैव गिरिकुहरे स्थितः। तस्य पुत्रेण शबरसेनापतिना पितृभक्त्यात्रैव स्फाटिकमयी भगवत्प्रतिमा 6निवेशिता, तदाप्रभृत्येतद्विद्यासिद्धक्षेत्रम् । ततो ऽमुष्य प्राप्तशबरवेषस्य भगवन्नाभिभवप्रभावतो धरणे- 6 मद्रस्याभिधानेन चैषा निष्प्रत्यूह सिद्धिमेतु । ततः सर्वेऽपि विद्याधरा 'अस्य शीघ्र विद्या सिध्यत्' इति प्रोच्य तमालदलश्यामलंगगनतलमुत्पेतुः। ततस्तौ द्वावप्यङ्गीकृतशबरवेषौ तत्रैव तिष्ठतः। ततः कुमार एतेन कीरकथनेन जाने कृतशबरवेषौ विद्याधराविमौ ।' इत्याकर्ण्य कुमारेणोक्तम् । 'एणिके, तन्ममैकं 9 बचः कर्णकटुकं श्रूयताम् 'तयोक्तम् । 'ममादेशं देहि।' कुमारेण जल्पितम् । 'अत्रागतस्य मम कालक्षेपः समजनि, स्वस्ति भवतु भवत्यै, मया पुनरवश्य दक्षिणापथे गन्तव्यम् ।' एणिकया भणितम् । 'कुमार, "सत्यमेतद्यत्कदापि प्राघूर्णकैामा न वसन्ति । पुनर्निजवृत्तान्तनिवेदनप्रसादेन मम मनाप्रमोदो विधीय-13 ताम् । ततः कुमारेण मूलादारभ्य वनप्रदेशं यावच्चरितं निजं निगदितम् । पणिकयोक्तम् । 'कुमार, स्वद्वियोगेन जनकजनन्यौ विविधाबाधाभाजनं भविष्यतः, अतो यदिभवते रोचते तदा तव कायकौशलकथनार्थ कीरं प्रेषयामि ।' 'एतद्भवतु'इति प्रोच्य समुत्थाय कुमारश्वचाल । ततस्तत्संगतिविरहजात-16 मन्युभरसंभूतबाष्पजललवप्रतिरुद्धनयनालोकप्रचारा एणिका कीरेण समं कियती भुवमनुगम्य कुमार मापृच्छय व्यावर्तत । कुमारोऽपि क्रमेण कामन् विन्ध्याटवीं सह्यगिरि निकषा कस्यचित्सरसस्तीरे 18सार्थमेकमावासितं समीक्ष्य पुरुषमेकं पप्रच्छ । 'भद्र, निवेदय कुतः सार्थः समागतः, कुत्र वा गमी। 18
तेनोक्तम् । 'विन्ध्यपुरादायातः, काश्चीपुरी गमिष्यति ।' कुमारेण भणितम् । 'विजयापुरी कियहरे, इति जानासि त्वम् ।' तेनोक्तम् । 'देव, दूरे विजयापुरी परं दक्षिणमकराकरतीरस्था भवतीति श्रूयते।' 21कुमारेण चिन्तितम् । 'सार्थेनतेन समं मम गमनं कमनीयम्।' ततः कुमारः सार्थपतिं वैश्रवणदत्ता-1 भिधमुपगम्य बभाषे। 'हे सार्थपते, त्वया सह समेष्यामि।' तेनोक्तम् । भवत्विति महाननुग्रहः कृतः।'
ततः सार्थपतिना प्रयाणकं चके।। 4 ६४७) अत्रान्तरे सहस्रकरः पश्चिमाचलचूलामाललम्बे । सर्वत्र तमःप्रसरः प्रससार । ततः24
कस्मिंश्चित्प्रदेशे स सार्थ आवासं रचयांचके । ततो भवितव्यतया संनद्धैर्भिल्लैः समाकृष्टनिष्कृपकृपाणैरा
रोपितचापदण्डैः 'गृहाण गृहाण' इति वदद्भिः सार्थः सकलोऽपि लुण्टितः। तदसमञ्जसमालोक्य लोकः आपलायनं चकार । इतश्च सार्थपतिदुहिता धनवती प्रनष्टे परिजने व्यापादिते पादातिकजने पलायिते या
सार्थपती किरातैर्गृह्यमाणा भयभ्रान्तलोचना निःश्वासधोरणी मुञ्चमाना वेपमानपीनपयोधराशरणा 'शरणं शरणम्' इति प्रार्थयमाना कुमारकुवलयचन्द्रमुपससर्प। 80 ततस्तयोचे 'शौर्येण दृश्यसे सिंहसंनिभः। रक्ष भिल्लुजनस्तामस्ताशङ्कत्वमद्य माम् ॥' ३५७ 30
सेनोदितं 'भयभ्रान्तलोचने चारुलोचने । मा तनु स्वतनुत्यागादपि त्रातास्मि ते ऽधुना ॥ ३५८ इति प्रोच्य, 33 कुतोऽपि भिल्लादाच्छिद्य सशरं स शरासनम् । शरैर्षितुमारेमे धाराभिरिव वारिदः ॥ ३५९ 33
जर्जरं तत्प्रहारौघैर्बलं नष्टं दिशोदिशि । वीक्ष्य पल्लीपतियोद्धमुद्धतः समुपस्थितः॥ ३६०
निशातशरधोरण्या तदा ताभ्यां परस्परम् । अकालवृष्टिविहिता कालरात्रिरिवापरा ॥ ३६१ 36६४८) ततः कुमारेण रोषारुणेक्षणेन स्तम्भनमन्त्रः प्रयुक्तः। भिल्लेशेनापि कुमारे स एव मन्त्रः 36 प्रयुक्तः, परं तेन कुमारस्य न किमपि जातम् । ततो मिल्लपतिना चिन्तितम् । 'अहो, कोऽप्येष महा
सस्वः सर्वकलासु कुशलो मया हन्तुं न शक्यते, किंतु प्रत्युतामुष्य हस्ततो मया मृत्युः प्राप्यः, तदलं 39 संप्रहारेण, सर्वसंगपरित्याग एव मम श्रेयान् संप्रति' इति चिन्तयन् भिल्लस्वामी रणधरण्या हस्तशतम-39 पसृत्य करालं करवालमुत्सृज्य प्रलम्बमानभुजपरिधः परित्यक्तदुष्पणिधानः स्वीकृतसाकारनियमः पचनमस्कारं समुधरन् समशत्रुमित्रः कायोत्सर्गमनीचकार । तादृशवृत्तं वीक्ष्य पञ्चनमस्कारवचः श्रुत्वा
1) B महाशावरविधा. 8) कृतशाबरवेधी. 12) B प्रावृणिकै. 13) Pom. बन, Bom. निज. 16) 1 कियंती 210 om.मम. 22) Bom.हे. 31) Bधुनु for तनु. 32) Bom. इति प्रोच्य. 41) B पंचनमस्कारमुचरन्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org