________________
.58
रनप्रभसूरिविरचिता
[11I.848: Verse 3621सहसा संभ्रान्तः कुवलयचन्द्रः 'साधर्मिको ऽयम्' इति तत्समीपमुपागत्य प्रोवाच । 'किं त्वया सहसा 1
साहसमनीदृशं प्रारब्धम्, मुञ्च कायोत्सर्गम् । ममापि पूर्वकृतपापस्यापराधं सहस्व ।' ततः गल्लीपतिना चिन्तितम् । 'यदसावपि साधर्षिकस्ततो मम मिथ्यादुष्कृतं दातुमुचितम् ।' इति चिन्तयन् कायोत्सर्ग 3 प्रोज्य कुमाराय वन्दनकं विदधे, कुमारेणापि तस्य च । एवं तौ परस्परं दर्शितधर्मरागौ प्रीतिस्यूत
चेतसौ प्रसद्वाष्पबिन्दुदृष्टी बभूवतुः। कुमारेणोक्तम् । यद्यतत्कथमेतत्, अथैतत्किमपरेण।' पतदाकर्ण्य 6मिल्लपतिरूचे । सर्वमपि जाने परं दुष्टैः कर्मवैरिभिर्लोभपरवशः कृतः, परं त्वत्संगत्या संप्रति तपोनिय- 6 मध्यानयोगैरात्मानं साधयिष्ये ।' कुमारेणोक्तम् । 'न सामान्यं तव चरित्रम् । ततः कथय कोऽसि ।' स पल्लीपतिर्जगाद । 'नास्मि भिल्लाधिपः, एतत्तव विस्तरेण कथयिष्ये । सांप्रतं पुनः सार्थ भिल्लजनैलण्ठ्यमानं निवारयामि ।' ततः पल्लीपतिना सार्थः सर्वोऽपि भिल्लेभ्यो रक्षितः। भिल्लाः सर्वे पल्लीपति-9 भयतो दूरं नेशुः । यद्यस्य संबन्धि वस्तुगतमासीत् तत्तस्य पल्लीपतिरर्पयामास । भिल्लैः सार्थपतिनश्यन् धत्वा सेनापतये ऽर्पितः । तेनोक्तं च । 'सार्थपते, मा भयं भज, निजं पण्यं गृहाण' इति वदन् सेना12 पतिरुत्थाय कुमारेण समं सह्यशिखरिशिखरसंश्रयां महापल्लीमाटिवान् ।
12 ४२) कुमारेण च पल्लीं नगरीसमानश्रियं तथा तन्मध्यस्थप्रासादं विशदं विलोक्य पृष्टम् । 'यदमुष्य संनिवेशस्य किमभिधानम् । तेनोक्तम् । 'एतस्याः पल्याश्चिन्तामणिरित्याख्या।' एवमन्यान्य15 प्रश्नपरः कुमारस्तेन समं राजमन्दिरमाससाद । ततो द्वावपि मणिमयेषु भद्रासनेषु संनिविष्टौ। ततश्च 16
सानपीठमलंकृत्य विकसन्मालतीगन्धसनाथं लक्षपाकं तैलमुत्तमाङ्गे प्रक्षिप्य संवाहकैः कमलकोमलकरतलैः सुखेन संवाहिती। ततस्तौ कोष्णैर्जलैरङ्गं प्रक्षाल्य शुचिभूय चन्द्रांशुनिचयव्यते इव श्वेतवाससी 18परिधाय ततस्तदन्तर्वर्तिनि देवतायतने कनकमयकपाटसंपुटमुद्धाट्य शिवश्रियो द्वारमिव भगवतां 18 जिनानां कनकरत्तनिर्मिताःप्रतिमाः समभ्यर्च्य जिनस्तुतिचतुर्विशिकां परामृश्य प्रणिपत्य च भोजनमण्डपमुपाजग्मतुः। ततश्च यथासुखं भोजनं निर्माय खैरं परस्परं यावद्वातां कुर्वन्तौ तिष्ठतस्तावदकस्मात् प्रावृतसितधौतनिवसनो लोहदण्डव्यापृतकर एकः पुरुषः समागत्य सेनापतेः पुरोभूय इदं पपाठ ।
'जानास्यपारसंसारमसारं सागरोपमम् । वचश्व वेत्सि श्रीजनं शिवशर्मकदेशकम् ॥ ३६२
एतदद्ध्यवसायात्तु विरतिं न करिष्यसि । अतस्त्वां लोहदण्डेन ताडयिष्यामि निष्कृपम् ॥ ३६३ 24 इति वदता तेन सेनापतिरुत्तमाङ्गे मनाक् ताडितः। ततो महागारुडमन्त्राभिमन्त्रितसिद्धार्थप्रहतो भुजंगम 24 इवाधोमुखः स्थितः सेनापतिरित्यचिन्तयत् । 'अहो, कौतुकं यदनेन निर्दयमनसा सुपुरुषस्येशस्य पश्यतो ऽहं प्रहतः कर्कशं भणितश्च । अथवा मम प्रमादिन एतेन रम्यमेव विरचितम् । जरामृत्युमहारोगदुःखतप्ता भ्रमन्ति हि । संसारघोरकान्तारप्रान्तरान्तस्तनूभृतः॥ ३६४
27 तदन्तः कोऽपि यो भव्यः कर्मग्रन्धि विभिद्य सः। सम्यक्त्वरनं दुष्प्रापममूल्यं स्वीकरोति च ॥ ३६५
तदेव फलकं प्राप्य भवाम्भोधी प्रमादाति । यः शरीरी स सद्यः स्वं तनुते ऽतनुदुःखभूः॥ ३६६ 30 इति चिन्ताचान्तमनसं सेनापति बाष्पजललवप्लतनयनयुगलं प्रमुक्तदीर्धनिःश्वासं दीनास्यं निरीक्ष्य 30 कुमारःप्रोवाच । भद्र, कथय क एष वृत्तान्तः। ततो दीर्घ निःश्वस्य सेनापतिर्जजल्प । 'कुमार, श्रूयताम् ।
६५०) लोकंपृणगुणग्रामाभिरामास्ति गतावमा । धरारामाललामश्री पुरी रत्नपुरी वरा ॥ ३६७ 33 स्वःपुरीवोग्रधन्वाच्या व्योमश्रीवत्समङ्गला । अलकावत्सधनदा या लङ्केव सदा वरा ॥ ३६८
वनावनीव सन्नेत्रा कलिता ललिताशना । सपुन्नागा सनारङ्गा श्रीफलैः सुमनोरमा ॥ ३६९
तत्र रत्नमुकुटाबः प्रबविश्वमहीपतिः । समस्ति पृथिवीपालः पालिताखिलभूतलः ॥ ३७० 36 तदङ्गजी दर्पफलिको भुजफलिकश्च । एवं च तस्य राज्यं पालयत एकस्मिन्नमावास्या दिने प्रदोषे वासवेश्म 36 । प्रविष्टस्य किमपि चिन्तयतः प्रदीपे पतङ्ग एकः समागतः।राशा प्रकृत्यनुकम्पितहृदा चिन्तितम् 'अयं
पराको मर्तुकामस्तस्मादमुष्य परित्राणं करोमि' । इति चिन्तयता तेन करेण गृहीत्वा चारत्रय 39 कपाटविवरेण बहिः प्रक्षिप्तः । स पुनरपि दीपान्तिकमायातः ।राशा चिन्तितम् । 'उपायरक्षितो जन्तु: 39
21
37
जरामृत्युम
93
5) तदाकर्ण्य for एतदाकर्ण्य. 7) PO साम्य तव. 8) Pभिलाभिध:. 9) B सर्वेपि for सर्वे. 11) Bom. च. 16) B'समान for सनार्थ- 210 "निवसिनो. 22) P जानाम्यपार B जानास्यपारं. 33) B has some marginal glosses on these verses: इंद्रानेन आख्या, गक्षे उग्राणि धषि येगा ते उग्रधन्वानो धनुर्धरास्तैराढ्या ॥ धनदा दानेश्वरास्तैः सहिताः॥ दावं संताप राति यच्छंति दावरा राक्षसास्तैः सहिता पुरी सदावरा प्रधाना ॥ नेत्रैर्वृक्षविशेषैराकलिता संबद्धा, पुरी पक्षे सतां नेत्रा स्वामिना सहिता ।' ललिता मनोहरा असना प्रियं[गु]वृक्षा यत्र, पुरी पक्षे ललितानि आसनानि यस्यां ॥ नारंगवृक्षसहिता पुरी सह नारंगै निभिर्वर्त्तते स नारंगा ।। बिल्वफलैः ।.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org