________________
15
21
.50
रसप्रभत्रिविरचिता [III. F34 : Verse 3171कुमारेणोक्तम्। 'भगवन् , सा कुवलयमाला कथं वोध्या।' भगवतादिष्टम् । 'सापि तत्र विजयपयों 1
चारणश्रमणकथानकेन स्मृतपूर्वजन्मवृत्तान्ता गाथाचतुर्थपादं राजद्वारे सर्वजनदृष्टं करिष्यति । तत्र गत्वा गाथापूरणतस्त्वमेव तां परिणेष्यसि । सा पुनस्तव महादेवी भविष्यति । ततस्तत्कुक्षिभूरेष पाकसर- 3 त्रिदशः प्रथमः पुत्रो भावीति । तत्वमपाचीमभिगम्य कुवलयमालां प्रबोधय' इति निवेद्य सद्यः श्रमणेश्वरः ससार। सुपर्वापि 'अहं संबोध्यस्त्वया' इत्युक्त्वा गगने समुत्पपात । कुमारः 'भगवतादिष्टं कर्तव्यम्' 6 इति चिन्तयन् दक्षिणाभिमुखं चलितः पञ्चास्यं विलोक्य चिन्तयामासेति । 'यदयं साधर्मिको ऽथवा 6 पूर्वसंगतः स्निग्धबन्धुरेकगुरुदीक्षितश्चानशनी च, अतो मयायमुपचर्यः । यद्यस्य कायपरित्राणं न करिष्ये तदायं केनापि व्याधेन शरैनिहतो रौद्रध्यानवशमानसः श्वभ्रतिर्यग्दुःखभाजनं भावी' इति विचार्य 9 भव्यरीत्या तेन प्रतिजागरितो भणितश्चेति । 'जनौ जनौ मृगेन्द्र त्वमबोधिर्बहुधा मृतः । तथा म्रियस्वेति यथा भूयः स्यान मृतिस्तव ॥' ३१७
६३५) एवं धर्मकथां श्रुत्वा तृतीय दिने हर्यक्षःक्षुधाक्षामकुक्षिनमस्कारपरायणः समाधिना मृत्वा 12 सौधर्मे द्विसागरोपमायुस्थितिः सुमनाः समुदपद्यत । ततः केसरिशरीरसंस्कारमाधाय कुमारः कुव-12 लयचन्द्रो दक्षिणाभिमुखमचालीत् । ततश्च
गिरिनिर्झरझात्कारैर्वाचालितदिगन्तरम् । त्रिपत्रं सप्तपत्राढ्यं नवबाणद्रबन्धुरम् ॥३१८ शाखिसूनस्फुरद्गन्धलसद्भमरविभ्रमम् । स्थाने स्थाने श्रूयमाणकेकिझंकारनिःस्वनम् ॥ ३१९ । दारुणश्वापदवातसंकुलं केतनं वनम् । कुमारः क्रमयन् प्राप विन्ध्यपर्वतकाननम् ॥ ३२०
त्रिभिर्विशेषकम् ॥ 18 तदा तत्र नखंपचवालुकानिवहे ज्वलद्वहलदावानलनिर्गच्छबूमध्यामलितककुम्मण्डले सर्वतः शुष्यमाण-18
शाखिनि वात्यावियद्विवर्तितरजःसंचये च प्रचण्डमार्तण्डकिरणदण्डसंशोषितक्षितितले भीष्मग्रीष्मभरे उदग्रतृषासंशुष्यद्गलतालुकः कुमारः सलिलावलोकनाय कंचिद्भुभागं बभ्राम।
ततस्तदन्तर्वसुधायोषिद्भाले विशेषकः । नृत्यन्त्रिदशसुन्दर्या अवि सस्तं तु कुण्डलम् ॥ ३२१ 21 मुक्तावदातसद्वारि हारिवारिजराजितम् । वातावधूतकिल्कलिप्तकाष्ठाननामुखम् ॥ ३२२
क्रीडत्स्वर्गालनापीनवक्षोजक्षोभितोर्मिकम् । पालिद्रमालिस्लीनकिंनरीगीतसंगतम् ॥ ३२३ 24 आवर्तमिव गङ्गायाः क्षीराम्भोधेरिवानुजम् । सुधाकुण्डमिवोद्भुतं कासारं स व्यलोकत ॥ ३२४ 24
चतुर्भिः कलापकम् ॥ तमालोक्योच्छसितमिव हृदयेन, प्रत्यागतमिव बुद्ध्या सर्वथा प्राप्तमनोरथ इव कुमारः समभूत् । 27 तत्तीरस्थितेन कुमारेण चिन्तितम् । 'आयुर्वेदशास्त्रमध्ये मया श्रुतमासीत्, यत्किल दुस्सहासषापरि-27 श्रमभागिनापि देहिना तत्क्षणं पयो न पेयमिति । यस्मादेते सप्तापि धातवःप्रकुप्यन्ति, वातपित्तश्लेष्मा
दयो दोषा उत्पद्यन्ते, अतो मम श्रान्तस्य सद्यः शरीरप्रक्षालनपानादिकं नैवोचितम्' इति विचिन्त्य तत्ती30 रतरोरेकस्य तले क्षणमेकं विश्रम्य ततः कुमारः सरःसलिलावगाहनं पयःपानं च विदधे । ततः पुष्प-30
फलस्पृहयालुः सर्वतः परिभ्रमन् कस्मिन्नपि प्रदेशे लतानिकेतने प्रतिमां यक्षप्रतिमां यावनिरूपयति तावत्तत्र यक्षशिरोदेशे सकलत्रैलोक्यबन्धोर्भगवतो ऽहंतो मूर्तिर्मुक्तामयी तल्लोचनगोचरमागता। 33 कुमारस्तामालोक्य हर्षवशविकसल्लोचनः स्तुतिमाततान।
33 जय त्रिभुवनाधीश जय निर्माय निर्मम । जय कारुण्यपाथोधे जय श्रेयाश्रियोनिधे ॥ ३२५
६३६) ततः कुमारस्तां प्रतिमा जलेन प्रक्षाल्याहिमचिमरीचिवीचिपरिचयपेशलैः कमलैरभ्यर्य 36 भक्तिभृतस्वान्तः पर्यष्टौदिति ।
संसाराम्बुधिपापनीरलहरीमध्ये भृशं मजत
खाता त्वं भुवनैकभूषणमणे त्वं नायकस्त्वं गुरुः । 39 किंचान्यजनकस्त्वमेव जननी दीनत्वभाजो मम
39 त्वं बन्धुस्त्वमिह त्वमेव शरणं त्वं जीवितं त्वं गतिः॥ ३२६ अत्रान्तरे निर्मितातुलजलक्षोभा सरोवरोदरतः कापि कामिनी दिव्यरूपधारिणी निःससार । तां। 42च दृष्ट्वा चिन्तितं कुमारेण ।
14) Pत्रिपत्रिसप्त. 15) काक for केकि. 18) ककुमडले. 21) B शेषकं for विशेषकः and R has a marginal gloss: तस्य वनस्य मध्ये । भूखीभालतिलक। 27) PF दुःसहतृषाक्षुधापरिश्रमभाजिनापि. 29) , पामारिक for पानादिक- 30) पयः पाने च बंधाय blank space स्पृहयालुः, B च विधाय भोजनविषये स्पृड्यालु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org