________________
*49
-III.834 : Verse 3161
कुवलयमालाकथा ३ 1 स स्वर्गे पद्मचन्द्रस्ततश्युत्वा विन्ध्याटव्यां कण्टीरवः। पुनर्मानभटो ऽपि विपद्य पद्मसारः स्वर्गी, ततो 1
ऽयोध्यापुर्या भूपतेई ढवर्मणः सूनुः कुवलयचन्द्र इति । तथा मायादित्यश्युत्वा त्रिदिवे पद्मवराभिख्यो 3ऽनिमेषो भूत्वा दक्षिणस्यां दिशि विजयाभिधायां पुर्या भूधनश्रीमहा(विजय)सेनस्य दुहिता कुवलयमाला। 3 एतत्परिशाय मया चिन्तितम् । 'तदा तपस्विभवे मम संमुखमेतैर्भणितमासीत् यथा 'यत्र तत्रोत्पन्नानामस्माकं भवता सम्यक्त्वं दातव्यम्' इति सा यावन्मम प्रार्थना स्मृतिपथमागता तावदेष पद्मकेसर6स्त्रिदशः समागत्य मां प्रति स्तुतिमाततान ।
6 "समुत्पन्नावधिज्ञान शातजन्तुभवान्तर । जय त्वं श्रमणाधीश धर्माचार्यस्त्वमेव मे ॥ ३१३
६३३) तदाकर्ण्य तं निरीक्ष्य च मया जल्पितम् । 'भद्र, कथय किं क्रियताम् ।' ततो जल्पितं नाकिना । 'भगवन, पूर्व मया प्रतिपन्नमिति, यथा सम्यक्त्वदानेन पद्मसारपद्मवरपद्मचन्द्रजीवा अनु- 9 ग्राह्याः । एते शुद्धौ मिथ्यादृष्टिकुललब्धजन्मानौ, एकः सिंहश्च । तदेते ऽतिदुर्लभे श्रीजिनेन्द्रनिगमे
प्रतिबोधनीयाः। ततः समागच्छ यथा गच्छावस्तस्यामयोध्यापुयाँ कुमारं कुवलयचन्द्र प्रतिबोधयावः।' 12 मयादिष्टम् । 'न त्वयोपायः सुन्दरः समुपदिष्टः।
12 यतः सुखनिमग्नानां रतिधर्मे न जायते । नीरुजामौषधे न स्यादादरस्य लवो ऽपि हि ॥३१४ तत्तस्य कुमारस्य राज्यदिग्धावितस्य पितृमातृभ्रातृभगिनीस्वजनवयस्यादिभ्यो ऽनतिदरीकृतस्य च 15 कुतो बोधावसरः । यदुक्तम् ।
16 "जननीजनकभ्रातृवियोगेनातिदुःखिताः। यावन्न देहिनस्तावद्धर्मकर्म न तन्वते ॥" ३१५
कुमारानयनाय त्वं भद्र गच्छाधुना त्वहम् । चण्डसोमो हरियंत्र तत्र गच्छामि कानने ॥३१६ 18३४) तत्रैकान्ते कुमारः पितृवान्धववियोगकलितः सुखं सम्यक्त्वं ग्रहीष्यते' तदुक्त्वाहमिहा-18
गतः । पद्मकेसरः संप्राप्तो ऽयोध्यायाम् । तत्र च तत्क्षणनिर्गतस्त्वमश्वारूढो वाहकेलिगतो दृष्टः पद्मकेसरेण । स तुरङ्गं प्रविष्टः । त्वां गृहीत्वा तुरग उत्पतितः । त्वया च तुरगः प्रहतः । पद्मकेसरेण च 21 मायया मृतो दर्शितो न पुनर्मतश्च, केवलं तवाशाभङ्गः कृतः। ततः कुमार, सम्यक्त्वलाभार्थमनेना-21 श्वेनाक्षिप्य त्वमानायितः । एतानि तानि रत्नरूपाणि विलोकयेति । ततः कुवलयचन्द्रः स्वं प्राच्यरूपं
तथा कुवलयमालायाश्चापरेषामपि पूर्वजन्मस्मृतिनिमित्तानि तान्यपश्यत् । उत्पन्नं च तदर्शनेन कुमा-: 24रस्य सिंहस्य च जातिस्मरणम् । मुनिना समादिष्टम् । 'कुमार, ततस्त्वं विचारय। 'असारः संसारः,24
तीक्ष्णा नरकव्यथा, दुर्लभः श्रीजिनप्रणीतो धर्मः, दुष्प्रतिपाल्यः संयमभारः, बन्धनसदृशः सदननिवासः, निबिडनिगडप्राया दाराः, महाभयमज्ञानम्, न सुलभा धर्माचार्याः, महाभाग्यलभ्यं मनुष्य. 27 जन्म' इत्येवं च विज्ञाय 'सम्यक्त्वं गृहाण, द्वादशव्रतान्यङ्गीकुरु, परिहर पापस्थानानि ।' इदमात्मना 27
पूर्वजन्मवृत्तमथाश्वापहृतिं च निशम्य भक्तिभरप्रणतोत्तमाङ्गः कुवलयचन्द्रो वक्तुं प्रवृत्तः। 'अहो, अनु- गृहीतो भगवता सम्यक्त्वदानप्रसादेनेति तावन्मम ददस्व जिनराजदीक्षानुग्रहम् ।' मुनिना प्रोक्तम् । 30 'त्वमुत्सुकमनामा भव, तवाद्यापि भोगफलं कर्म समस्ति, अतःप्रव्रज्या न ग्राह्या । सांप्रतं पुनदशविधं 30 श्रावकधर्म प्रतिपालय ।' एतदाकर्ण्य कुमारेणोक्तम् । 'भगवन् श्रूयताम्, अतः परं श्रीजिनान् साधूंश्च विना नान्यं नमामि, श्राद्धधर्म च पालयिष्ये।' भगवता भणितं भवतु' इति । ततो मुनिना पुनरप्युक्तम् । 33 'भो मृगराज, त्वया पूर्वजन्मवृत्तं श्रुतम् । वयमपि तद्वचः संस्मर्य समागताः। तावदगीकुरु सम्यक्त्वम् । 33
गृहाण देशविरतिम् । मुञ्च निस्त्रिंशत्वम् । परिहर प्राणिवधम् । त्यज सर्वथा क्रोधम् । अनेन दुरात्मना क्रोधेनावस्थामिमामुपनीतोऽसि।' इदं वचो निशम्य मृगाधिपःसर्वाङ्गरोमाञ्चितश्चलबीर्घलाङ्गलः समुत्थाय 36 मुनि प्रणम्य प्रत्याख्यानं ययाचे । भगवता झानेनादिष्टम् । 'कुमार, एष केसरीदं जल्पति, यथा ममानशनं 36
देहि, यदस्माकमपुण्यवतां नास्ति प्रासुकाहारः। सदैव वयं मांसाशिनः, अतो मम न श्रेष्ठं जीवितम् ।' ततो मुनिना तस्य प्रपत्रप्रतिबोधस्य निरागारमशनमदायि। स च तदङ्गीकृत्य त्रसस्थावरजन्तुजातविरहिते 39 स्थण्डिले संसारासारतां चिन्तयन् पश्चनमस्कारपरायणः परित्यजन् स्वजातिदुःशीलत्वमुपाविशत् ।' 39
माया दानप्रणीतोयम् । कम
2) B मायादित्यो इति च्युत्वा, B'भिख्योनिमिषो. 3) PB दिशि जयाभिधायां, PB श्रीमहासेनस्य. 11) D'मयोध्यायां पुयो. 14) B राज्योदयश्रिया लालितस्य (this is a correction on the original reading something like the one adopted in the text), B'भ्यो दूरीकृतस्य. 17) B तत्रागच्छामि. 18) B तदुक्त्वाहमिहागतः पश्भकेसर: स्त्वामानेतुं गतः तत्र. 19) F om. संप्राप्तोऽयोध्यायाम् , shown by blank space; PB वाहकेलिगतो दर्शितो न पुनर्मूतश्च केवलं तवाशयाशाभगः. 26) B निवड B for निबिड. 27) Bइदमात्मनः- 36) B यथा मम मांसाहार एव ततोसाकमपुण्यवतां.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org