________________
-III. 38: Verse 997]
कुवलयमालाकथा ३
# 51
1 'समुद्रनन्दिनी किं वा किं वा विद्याधरी वरा । किं वा सिद्धाङ्गना किं वा देव्यसौ व्यन्तरी किमु ॥ ३२७ 1
तां चानु करकमलकृतजलभृत कनक कलशा दिव्यसरोजा दिपूजोपकरणपूर्ण पटलिका विहस्तहस्ता कुनिका ३ च निर्गता । ते च विलोक्य कुमारश्चिन्तयामास । 'ननु दिव्ये इमे, न ज्ञायते केन हेतुनात्रागते ।' ततो 3 res प्रदेशे स्थास्यामि तदेतयोर्मनसि महान् क्षोभो भविष्यति, अतो ऽस्यैव यक्षस्य पृष्ठिभागे तिष्ठामि क्षणमेकम् 'यथैते किं निमित्तमागते, किमत्र कुते' इति परिज्ञानाय तद्यक्षपृष्ठावतिष्ठत् । ततः सा मृदङ्गी भगवत्प्रतिमां सरोजैरर्चितां विलोक्य जल्पितवती । 'हे कुब्जिके, यदियमन्येनापि भगवतः 6 श्रीमदादिनाथस्य प्रतिमा केनाप्यचिंता, परमिति न ज्ञायते यद्देवेन मानुषेण वा ।' कुब्जिकयोक्तम् । 'अत्र वने शबरैरभ्यर्चिता भविष्यति ।' तयोक्तम् । 'नहि नहि विलोकय पदपद्धतिम्, यदस्यां वालुकाप्रति'बिम्बितायां पद्मशङ्खाङ्कुशादीनि लक्षणानि लक्ष्यन्ते, ततो मन्ये को ऽप्युत्तमः पुमान्' इति वदन्ती 9 सुदती पूर्वपूजा कमलान्युत्सार्य भगवन्मूर्ति कनककलशगन्धोदकेन संखाप्य विकचैरम्भोजैरभ्यर्च्य स्तुतिमातन्य ततो यक्षं संपूज्य गीतं गातुं प्रवृत्ता । तस्या गेयं लय-ताल-तान-श्रुति-स्वर - मूर्छना12 ग्राम सुन्दरम मेयगुणमाकर्ण्य कुतमनाः कुमारः 'अहो गीतम्, अहो गीतम्' इति वदन्नात्मानं प्रकटीचक्रे । 12 सा च मृगलोचना रूपगुणकलाकलापकलिताय कुमारायाभ्युत्थानं विदधे । कुमारेणापि 'साधर्मिकवत्सलत्वम्' इति चिन्तयता प्रथममेव साभिवन्दिता । तया साध्वसत्रपाभ रोत्कम्प कम्पमान स्तनभरया 15 सविनयं भणितम् । 'देव कस्त्वम्, विद्याधरश्चक्रवर्ती सुरो वा कुतः समागतः क्व यास्यसि' इति । अथ 15 भणितं कुमारेण । 'मनुष्यो ऽहं कार्यार्थी दक्षिणापथं प्रत्ययोध्यातश्चलितः । एष मम परमार्थः ।
18
( ३७ ) 'हे कुमार, श्रूयताम् ।
समस्तीह भुवि ख्याता पुरी स्वर्गपुरीनिभा । माकन्दी भूरिमाकन्दा सदादीनजनस्थितिः ॥ ३३० अरिष्टशब्दो निम्बे स्यात् कलिर्यत्र विभीतके । पलंकषो गुग्गुलैौ च जने नैव कदाचन ॥ ३३१ 21 तत्रास्ति यशदत्ताभिधः सूत्रकण्ठः श्रोत्रियः । स च कृष्णाङ्गः कृशशरीरः खरस्पर्शः प्रदृश्यद्धमनिजालः सदा दारिद्र्यमुद्राविद्रुतः । तस्य सावित्री प्राणप्रिया । तत्कुक्षिभवान्यपत्यानि त्रयोदश । तेषु चरमः 24 सोमनामा तनूजः । तस्मिन् जातमात्र एव संवत्सराणामधमा विंशिका प्रविष्टा । तदनुभावेन द्वादश - 24 वत्सरीमवृष्टिरजायत ।
यत्रषयो न जायन्ते न फलन्ति महीरुहः । निष्पद्यते न वा सस्यं तृण्या नैव प्ररोहति ॥ ३३२
21
27
अतो देवार्चनं नैव नैवातिथिषु सत्क्रिया । वितरन्ति न वा दानं नार्चयन्ति जना गुरून् ॥ ३३३ 27 एवंविधे महादुर्भिक्षे यज्ञदत्तकुटुम्बं समस्तमपि क्षयमियाय । केवलं स बटुः सोमः कनिष्ठपुत्रः कथमपि कर्मवशतः क्षुधाभारोपरतसमग्रबन्धुवर्गः कदाचिद्राजमार्गे विपणिश्रेणिपतितैर्धान्यकणैः 50 कदाचिद्भोजनक्षणदत्तबलिपिण्डेन महता कष्टेन महद्दुष्कालकान्तारं व्यतीयाय । तदनन्तरं ग्रहगत्या 30 प्रजानां भाग्यवशतः प्रभूतं तोयं निपतितं सर्वत्र प्रमुदितानि जनमनांसि सर्वत्रैवोत्सवः प्रवृतः । तस्मिन्नीदृशे सुभिक्षे प्रवृत्ते सोमबटोः षोडशवर्षदेशीयस्य दरिद्र इति पदे पदे जनेन हस्यमानस्य 33 वेतसीदृशी चिन्ता संजाता ।
एतस्मिन् [हि ] महारण्ये का त्वं यक्षः क एष वै । एतस्य हेतुना केन शीर्षे मूर्तिर्जिनेशितुः ॥ ३२८ एतच्चित्रं महश्चित्ते मम संप्रति वर्तते । कुरङ्गनयने तावदेतदाशु निवेदय ॥ ३२९
18
36
39
'के sपि मर्त्यसहस्राणामुदरंभरयो नराः । प्राकृतादुष्कृतादात्मंभरयो ऽपि न मादृशाः ॥ ३३४ तत्कृतं सुकृतं किंचिनैव पूर्वभवे मया । येन मे न भवत्येव दुस्थावस्था कदाचन ॥ ३३५ सर्वदापि सुखेच्छा स्याल्लोकस्यामुष्य मानसे । न करोति परं किंचित् श्रेयो येन सुखी भवेत् ॥ ३३६ 6 ३८) तत्सर्वथैव धर्मार्थ काम पुरुषार्थत्रयशून्यस्यास्मादृशजनस्य जीवितत्यजनमेव श्रेयस्तरम्, अथवा न युक्तमेतत्, यत आत्मनो वध उचितो न ।
ये त्यक्ता द्रव्यमानाभ्यां भवेयुर्भविनो भुवि । श्रेयांस्तेषां वने वासो ऽथवान्यविषयान्तरे ॥ ३३७ 39
33
3) B यामास । अथ मया किं कर्तव्यमिति यद् अन्न प्रदेशे P bas blank space for ननु दिव्ये etc. to ततो. 4) B पृष्टिविभागे. 5 ) P अति for इति. 13 ) 8 कलितस्य कुमारस्याभ्युत्थानं. 15 ) P has a gap shown by blank space for सविनय eto, to एतस्मिन् [हि ], D° भरया भाणि भो कुमार भवान् कुतः कुत्र किमर्थं याति । कुमारोऽप्यश्वापहारमारभ्य कुवलयमालाबोधं यावनिवेयतां मी भद्रे महारण्ये. 17 ) B वा for वै. 21 ) s has & marginal gloss : ऽरिष्टशब्दो लिंबे वाचकः । न लोकेऽरिष्टशब्दप्रयोगः । कलिः कलहः । बिभीतकवृक्षश्च । पलंकषो गुग्गुलुः । पलं मांसं कषति विनाशयति पलंकष ः 1. 22 ) B भिदः कठः श्रोत्रियः, प्रदृश्यमानधमनिआल: (मान added on the margin). 26) 0 तृणान्येव प्ररोहति but suggests an emendation thus: 'रोहन्ति वृष्णान्वी'.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org