________________
-III. $ 31 : Verse 307]
कुवलयमालाकथा ३ 1वीक्ष्य संजातचित्तकौतुकस्तमुद्देशं यावदाजगाम तावत्सहसा कस्यापि स्वर इव श्रवणातिथित्वं मेजे। ।
तमाकर्ण्य चिन्तितमनेन । 'अत्र तावत्पूर्व मनुष्यप्रचारोऽपि न कथं वालाया इव शब्दः । अहो, अहमपि 3 कुत्र प्राप्तोऽस्मि यन्न कथास्वपि श्रूयते यत् स्वप्ने ऽपि न दृश्यते तदैव देवेन घट्यते' इति चिन्तयना 3 यावन्निरूपितं तावत्कदलीतरुनिकुरुम्बान्तरे रक्ताशोकतरुतले ऽसामान्यरूपातिशया गुणग्रामाभिरामा काचित्प्रत्यक्षा वनदेवतेव वनिता दत्तकण्ठपाशा दृष्टा । ततस्तया प्रजल्पितम् । 'श्रूयतां वनदेव्यः, परस्मि 6न्नपि जन्मान्तरे ममेदृशं मा भूयात्' इति भणन्त्या तयात्मोद्वबन्धे । अत्रान्तरे तेन करुणाशरणेन सहसा- 6
गत्य तस्याः पाशश्चिच्छिदे, पतिता सा धरायां वायुनाश्वासिता च । चन्दनकिशलयरसेन विलिप्तं वक्षःस्थलम् । तया लब्धसंज्ञया सागरदत्तो ददृशे। तं वीक्ष्य ससाध्वसहृदया स्ववासः संवरीतुमारेमे । तेन भणिता।
9 'पुष्पबाणप्रिया किं त्वं वनलक्ष्मी किमत्र वा। किमात्मारोपितो दुःखे निवेदय कृशोदरि॥' २९९
उवाच सा 'रति व नास्मि लक्ष्मीर्वनस्य च । समाकर्णय मत्तं त्वमेकाग्रमनाः पुनः॥ ३०० 12६२९) अस्ति दक्षिणमकराकरतीरे जयतुङ्गा नाम नगरी । तत्रोत्तुङ्कश्रिया वैश्रमण इव वैश्रमण:12
श्रेष्ठी। तस्याहं दुहितात्यन्तप्राणप्रिया। अन्यदादिवसे स्वभवनकुट्टिमतले शय्यायां प्रसुप्तानेकशकुनिश्वापदकलकलरवेण विबुद्धा यावञ्चिन्तयामि तावदनन्तपादपशतदलावलि निरुद्धतरणिकिरणजालं कान्तार15 मेव पश्यामि । तच्च वीक्ष्य भयावेशकम्पिततनुलता विलपितुं प्रवृत्ता।
15 भविष्यामि कथं तात निराशा हा त्वयोज्झिता । इदानीं कानने भीमे शरणं भावि कुत्र मे ॥ ३०१ अत्रान्तरे 'तव शरणमस्मि' इति जल्पन् दिव्यरूपधारी कोऽपि पुमान् लतानिकेतनतः समुत्तस्थौ। 18 तमालोक्य द्विगुणतरं समुपजातक्षोभा रोदितुमारेमे, स च मत्समीपमुपागत्य वक्तुं प्रावर्तत। 18
'मुश्च माश्रूणि तन्वङ्गि न करोमि तवावमम् । त्वद्रूपाक्षिप्तचित्तेनापहृतासि मयाधुना ॥ ३०२
बाला जगाद सा 'कस्त्वं केन ते कथितास्मि च। तन्निशम्य ततोऽवोचन्नरः शृणु शुभानने ॥ ३०३ 21६३०) अस्ति वैताठ्यपर्वतः । तच्छिखरनिवासिना मया विद्याधरेण महाबलवता त्रिदशवनिता- 21
नामपि मानसे क्षोभकारिणा निखिलमपि क्षोणीतलं कलयतोपरितनकुट्टिमतले तलिने प्रसुप्ता तलिनोदरी त्रिभुवनाधिकशालिनी इतिकृत्वा भवती मम मनसि प्रवेशं चके। 24 प्रेमोलसति कस्यापि कापि दैववशात्तथा। विनेतुं शक्यते यन्न विलग्नं वज्रलेपवत ॥३०४ 24
ततो 'नापरो ऽत्रोपायो ऽस्ति' इति विचिन्त्याहं सुप्तां त्वामपहृत्य निजगुरुशङ्कितो निजनगरं न गतः, किन्त्वत्र द्वीपे विजने समागतो ऽस्मि, अतो मया सह भोगान् भुव, दुःखं मा धेहि ।' अतो मया 27 चिन्तितम् । 'तावदहं कन्या न कस्यापि दत्ता, अन्येनापि वणिजा परिणेतव्या, ततो वरमयं सुन्दराकृति-27 विद्याधरः त्रिजगतीयुवतिजनवल्लभः स्नेहमोहितमना यदि मत्करग्रहं करोति तदा मया किं न लब्धम्'
इति चिन्तयन्त्या मयोक्तम् । 'अहं त्वयात्र कानने आनीता यत्तुभ्यं रोचते तत्समाचरेः । ततः सहर्ष30 संभृतचेताः समजायत । अत्रान्तरे कर्षितकरालकरवालभैरवो विद्याधर एकः रे रे अनार्य, कुत्र व्रजसि' 30
इति जल्पन् प्रहर्तुमायातवान् । ततो मे दयितः समाकृष्टरिष्टी 'रे रे दुष्ट, मत्कलत्रापहारं कर्ता' इति वदन् तेन समं योद्धमारेमे । ततस्तौ युध्यमानौ निशितासिघातैः परस्परं लूनशीर्षों क्षितौ निपतितौ 33 विलोक्य महहःखाक्षिप्तचित्ता विलपितुं प्रवृत्ता।
33 'हा सौभाग्यनिधे नाथ रूपश्रीजितमन्मथ । मामेकका परित्यज्य वने कुत्र गतो भवान् ॥ ३०५
गृहादानीय मुक्त्वात्र मामेकां काननान्तरे । जीवेश मा व्रज काप्यथवा नय निकेतने ।' ३०६ 36 ६३१) तत एवं विलप्य मरणकृताध्यवसायया मया 'यथा भूयो भवदुःखानां पदं न भवामि' 36 इति चिन्तयन्त्या लतावेश्मनि लतापाशं विरचय्य खं च शोचन्ती स्त्रीजन्म गहमाणा कुलदेवी संस्मर्य मातापितरौ प्रणम्य चात्मा बबन्धे । अतो न जाने किं वृत्तम् , केवलं भवान् वीज्यमानो दृष्टः। 'कुतस्त्वं 39 कुत्रत्या, कथमत्र दुर्गमे द्वीपे। ततः सागरदत्तः स्ववृत्तान्तं प्रतिक्षारोहणाचं यानपात्रविघटनान्तं निवे-39
दयामास । ततस्तयोक्तम् । एवंविधे विषमे कार्य संप्रति त्वया किं करणीयम्।' सागरदत्तेनोक्तम् । 'सत्पुरुषाःप्राणान्ते ऽपि न प्रतिज्ञाभनं विदधति।' तया जल्पितम् । 'दैवायत्ते प्रतिज्ञानिर्वाहे न किमपि 42 भद्र, तव दूषणम्, तत्किं त्वया संप्रति विधेयम् ।' स भूयोऽप्युवाच 'ममैवं समुद्रान्तभ्रंमत एकादश 42
3) B तदेव for तदैव. 5) P Bom. वनिता. 6)P भणत्या. 7) वलिप्त for विलितं. 12) FB 'करप्रतीरे, B नगरी उगश्रिया. 13) B प्रसुप्ता । अनेक. 17) Pom. इति, B दिव्यधारी, Bom. पुमान्. 22) प्रसुप्ता। मलिनोदरी प्रसुप्तामलिनोदरी. 26) PB दीपे निर्विजने. 40) Bom. त्वया.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org