________________
-III. § 18 : Verse 264]
कुवलयमालाकथा ३
1 निविप्राः साधवः साध्यो जिनं नत्वा तदन्तरे । प्रमोदमेदुरास्तस्थुरुर्द्धा वैमानिकाः स्त्रियः ॥ २३६
शुग्मम् ॥
6
3 प्रविश्य याम्यद्वारेण नैर्ऋते विधिना क्रमात् । ज्योतिष्कभुवनाधीशव्यन्तराणां स्त्रियः स्थिताः ॥ २३७ ३ आगत्य पश्चिमद्वारा वायव्यां भुवनेश्वराः । ज्योतिष्का व्यन्तराश्चैवमादधुर्विधिना स्थितिम् ॥ २३८ प्रविश्याथोत्तरद्वारा प्रणम्यानुत्तरं जिनम् । वैमानिकनरा नार्य ईशान्यां क्रमतः स्थिताः ॥ २३९ न भीस्तत्र न मात्सर्य न बाधा न च दुष्कधा । नासीनियन्त्रणा नाहंकृतिः स्वामिप्रभावतः ॥ २४० तत्र द्वितीयवप्रान्तः कण्ठीरवगजादयः । वैरिणो ऽपि मिथः प्रेमलालसाः स्थितिमादधुः || २४१ तस्थुस्तृतीयवप्रान्तर्वाहनानि क्षमाभृताम् । सुराणामसुराणां च विमानानि यथाक्रमम् ॥ २४२ 9 क्षेत्रे योजनमात्रे ऽत्र प्राणिनः कोटिकोटिशः । संमान्ति यदनावाधं प्रभावः प्राभवो हि सः ॥ २४३ धर्मनाथ जगन्नाथमथानम्य जिनेश्वरम् । स्तुतिं कर्तुं समारेभे पद्मसारः सुधाशनः ॥ २४४ raar सद्यो ऽपि क्षीणं मे क्षीणकल्मष । त्वदाननविलोकेन वायुनेव घनाघनः ॥ २४५ 12. देव त्वदङ्घ्रिकल्पद्रुसेवा हेवाकिनो ऽत्र ये । भजन्ते ते न दारिद्र्यमुद्रामुद्रितमाश्रयम् ॥ २४६ नीरागं तब चित्तं तन्मिथ्या नाथ कथ्यते । मुक्तिनारीपरीरम्भलोलुभं कथमन्यथा ॥ २४७ गुणैस्तवातिनीरन्धैर्धर्मनाथ मनो मम । तथा बद्धं यथा गन्तुं नोत्सहत्यन्यदैवते ॥ २४८ श्रीधर्मनाथ भगवन् भविता स क्षणः कदा | भवितास्वो यदा त्वं चाहं चैकत्राव्यये पदे ॥ २४९ तनोति न तथोत्कण्ठां मानसं मे शिवश्रिये । यथा तव पदाम्भोजवरिवस्याविधौ विभो ॥ २५० वल्पमतिः स्वामिन् ध्रुवमल्पमतिस्त्वहम् । अतो नहि मया कर्तुं शक्यस्तव गुणस्तवः ॥ २५१ 18 जामेकां श्रुती नेत्रे द्वे द्वे नाथ विधिर्व्यधात् । क्षमः कीर्तिं गुणान् रूपं वक्तुं श्रोतुं किमीक्षितुम् ॥२५२ 18 एतमेवार्थयेऽत्यर्थमर्थमर्थीत्र तीर्थव । वीतराग परं वीतरागं मम मनः कुरु ॥ २५३ ऋभुप्रभुप्रतीक्ष्यं तं स्तुत्वा तत्त्वावलोकटक् । निवसाद यथास्थानं पद्मसारः प्रमोदतः ॥ २५४ अथ सुधारसमुचं समाचारप्रचारिकाम् । विधातुं देशनां धर्मचक्रवर्ती प्रचक्रमे ।। २५५ असार एव संसारः सर्वदा दुःखमन्दिरम् । धर्म एव प्रशस्यः स्यात् तत्र स्वर्गापवर्गः ॥ २५६ संसारसागरे पारे भ्रमद्भिः प्राणिभिश्चिरात् । नृजन्म लभ्यते पुण्यैर्वसुधान्तर्निधानवत् ॥ २५७ नृभवं दुर्लभं प्राप्य यः प्राणी तनुते तनु । न हितं प्रान्तकाले हि शोचत्यात्मानमेव सः ॥ २५८ करालज्वलनज्वालावलीढे मन्दिरे यथा । स्थातुं न युज्यते पुंसस्तथा दुःखाकुले भवे ॥ २५९ मानुष्यं दुर्लभं प्राप्य चिन्तारत्नसहोदरम् । विवेकिभिर्विधातव्यः प्रमादो न कदाचन ॥ २६० गृह्णाति का किर्णी को sपि मूढः कोटिं यथोज्झति । तथा पुमान् विषयजं शर्म धर्म जिनोदितम् ॥ २६१ 27 सागरान्त र कल्लोलमालालोलाः श्रियो नृणाम् । कुशाग्रस्थ स्तुषाराम्बुविन्दुकम्पं हि जीवितम् ॥ २६२ रूपलक्ष्मीस्तडिद्दण्ड सादृश्यं भजते ऽनिशम् । स्वाम्यं स्वप्तोपमं संध्यामेत्रलेखासखं सुखम् ॥ २६३ 30 देशनाविरते श्रीमद्धर्मनाथजिनेश्वरे । कृताञ्जलिस्ततो वाचमुवाच गणभृत्तमः ॥ २६४
15
21
24
27
41
8 ) च वैमानानि 20 ) P प्रतीक्षं तं. 31 ) Pr. om. पर्पदि. 37 ) Bow. ततो 39 ) PB निवृत्ति 41 ) Before महादेवी P adds लोचना aud B adds सुलोचना (सु being added later ).
6
Jain Education International
1
For Private & Personal Use Only
6
9
12
16
30
'भगवन्, एतस्यां सुरासुरनरतिर्यकोटिनिभृतायां पर्पदि कः प्रथमं महोदयपदं गामी' इति । ततो भगवता निवेदितम् । 'भो देवानुप्रिय, यस्तव सविधे वृपलोचनः स्मृतपूर्वभवः संविग्नमानसो 33 निर्भयप्रचारो मदर्शनसंतुष्टः प्रमोदभरप्रविगलदश्रुलोचनयुगलस्ताण्डवित कर्णयामलः समागच्छन्नस्ति 33 सर्वेषामपीहस्थजन्तूनां पूर्वमेवैष पापविनिर्मुकः सिद्धिपदं गमिष्यति' इति । एवं भगवतो भणितानन्तरमेव समकालं सकलनरेन्द्रवृन्दत्रिदशेन्द्रलोचनानि कौतुकरभसविकाशवन्ति मूषकोपरि निपतितानि । 36 स चागत्य भक्तिभरनिर्भराङ्गो भगवतः श्रीधर्मनाथस्य पादपीठे लुलोठ । महीतलनमितोत्तमाङ्गः सर्वाङ्ग- 36 रोमोम संगम आखुः स्वभाषया भषितुं प्रवृत्तः । ततो भणितं त्रिदशपतिना । 'भगवन्, मम मनसि महकौतुकसिदं यदेष मूषकः सर्वाधमस्तुच्छजातिः काननान्तरसंचारी सर्वेषामेवास्माकं मध्ये प्रथमं 39 30 निर्वृतिश्रियमाश्रयिष्यति । ततः श्रीमद्भगवान् स्वयमवादीत् ।
21
९ १८ ) अस्ति विन्ध्यो नाम महीधरः । तस्योपत्यकायां विन्ध्यावासाभिधानो महान् संनिवेशः, स चातीय विषमः । तत्र महेन्द्रः पृथिवीपतिः । तस्य ताराभिधाना महादेवी । तत्कुक्षिसंभवः सुत42 स्ताराचन्द्रो वर्षदेशीयः । अत्रावसरे छिद्रान्वेषिणा बद्धवैरातिशयेन कोशलेन भूमिपतिनावस्कन्दं 42
24
www.jainelibrary.org