________________
*40
रत्नप्रभसूरिविरचिता [III. F 16 : Verse 2011 अथ ते सुराः पनसारप्रमुखास्त्रिदशाधिपेन सार्ध भावनामावितान्तःकरणाश्चम्पापुर्या श्रीधर्मजिनेश्वरस्य 1
समवसरणमवायुः । पद्मसारेण सुमनसा सुमनःपतिरभाणि । 'यदि यूयं ममाज्ञां ददत ततो ऽद्याहमेक ३ एव गोस्वामिनः श्रीधर्मजिनेन्द्रस्य समवसृर्ति रचयामि' इति । वज्रिणा तथा' इति प्रतिपेदे । तथा हि,3
योजनोन्मानमेदिन्यां पद्मसारःशुभाशयः। प्रमार्जयन् रजो बाह्य स्वस्यान्तस्तदपाहरत् ॥ २०१ ततः स एव गीर्वाणः सुगन्धोदकवृष्टिभिः । सिषिचे पुण्यबीजस्य वापायेव महीतलम् ।। २०२ सुवर्णमणिमाणिक्यश्रेणिभिर्भक्तिभासुरः । हर्षतः परितः पद्मसार: पृथ्वी बबन्ध सः ॥ २०३० जानुदग्नरधोवृन्तैः पञ्चवर्णमणीचकैः । भाविधर्माधिसंस्पर्शा पृथिवीमार्चयन् स च ॥२०४ द्विधा सुमनसा तेन काष्ठासु चतसृष्वपि । अकारि सुमनोहारि तोरणानां चतुष्टयम् ॥ २०५ तस्याप्रतिमशोभस्य वीक्षणार्थमिवागताः । साक्षादिव बभुर्देव्यो विविधा शालभञ्जिकाः ॥ २०६ रेजे ध्वजवजो यत्र चञ्चलस्तोरणोपरि । आकारयन् भव्यलोकमिव धर्मजिनान्तिके ॥ २०७ अधस्तले तोरणानां भूमिपीठेषु तेषु सः । प्रत्येकं रचयांचके मङ्गलान्यष्ट निर्जरः ॥२०८ चले वैमानिकसुरः पद्मसारः प्रमोदभाक् । व रात्नं पञ्चवर्णमण्याढ्यकपिशीर्षकैः ॥२०९ रेजे रत्नमयो वप्रः पताकाराजिराजितः ।खं संक्षिप्य वपुर्भक्त्या रोहणाद्रिरिवागतः ॥२१० जातरूपमयं वप्रं द्वितीयं तद्वहिः सुरः । स्वज्योतिषेव विदधे भक्तिसंभारभाजनम् ॥ २११ कपिशीर्षतती रेजे तत्र रात्नी विनिर्मिता । राजीवबन्धुराजीव बहुद्वीपेभ्य आगता ॥ २१२ तृतीयः पद्मसारेण प्राकारस्तद्वहिः कृतः । राजतः श्रीजिनं नन्तुं वैताढ्याद्रिरिवागमत् ॥ २१३ तत्रोच्चैर्जात्यरजतकपिशीर्षावलिर्दधौ । स्वर्गापगाम्भसि स्वर्णमयनीरजविभ्रमम् ॥ २१४ रेजे वप्रत्रयी पृथ्व्यास्निपट्टवलयाकृतिः। प्राकाराग्रावली नानाविधिविच्छित्तिसंगता ॥२१५ तोरणास्तत्र भान्ति स्म नीलाश्मदलनिर्मिताः । प्रतिवप्रं चतुर्दारे चतुर्दारे शिवश्रियः ॥२१६ शारदाभ्रमहाशुभ्रास्तोरणेषु ध्वजवजाः। रेजुः पुण्यश्रियः शस्ता हस्ता विस्तारिता इव ॥ २१७ दह्यमानागुरुक्षोदधूपधूमसमाकुलाः । धूपघट्यः प्रतिद्वारं राजन्ते तत्पुरस्सराः ॥ २१८ रेजुर्वाप्यः प्रतिद्वारं स्वर्णाम्बुजमनोहराः। कीडनार्थमिव स्फूर्जद्वहिधर्मवतश्रियाम् ॥२१९ प्रारद्वारे मणिवप्रस्य स्वर्णवर्णविराजितौ। प्रतीहारौ स्फुरद्वक्षस्तारहारौ स निर्ममे ॥ २२० यतिश्रावकयोधर्माविव मूर्तित्वमागतौ । याम्यद्वारे द्वारपती सिताङ्गौ स चकार च ॥ २२१
24 चित्तोद्धतेन सर्वज्ञरागेणेवारुणधुती। निर्मितावपरद्वारे द्वारपालो सुपर्वणा ॥ २२२ उदग्द्वारे ऽत्र दोषघ्ननीलिकास्थासकाविवा । कृतौ कृष्णाङ्गको तेन द्वारपौ दानवारिणा ॥२२३ स निर्ममे ऽप्रतिच्छन्दं देवच्छन्दं जिनेशितुः। विधामाय सुरः स्वर्णवप्रान्तर्मणिराशिभिः ॥ २२४ 27 अन्तर्माणिक्यवप्रस्य त्रिदशश्चैत्यपादपम् । चकार चत्वारिंशामधनुष्पञ्चशतीमितम् ॥ २२५ पद्मसारः स तस्याधो मणिपीठोपरि व्यधात् । साडिपीठं रत्नमयं सिंहासनमनुत्तरम् ॥ २२६ नवहेमाम्बुजन्यस्तपदस्त्रिदशकोटियुक् । विभुः समवसरणं प्राच्यद्वारे विवेश सः॥२२७ ततः प्रदक्षिणीकृत्य चैत्यद्रं प्रामुखः प्रभुः । नमस्तीर्थायेति वदन्निविष्टः सिंहविष्टरे ॥ २२८ अपरास्वपि काष्ठासु त्रिदशस्तिसृषु व्यधात् । रूपत्रयं प्रभोस्तुल्यं स तस्यैव प्रभावतः ॥२२९ चतुर्गतिगतान जन्तूनुद्धत् निखिलानपि । चतुष्ककुम्मुखस्थायि हतु मोहमहावलम् ॥ २३० चतुष्टयं कषायाणां निराकतुं विरोधिनाम् । कर्तु चतुर्विधं संघमघसंघातघातिनम् ।। २३१ दानशीलतपोभावभेदैर्धर्म चतुर्विधम् । व्यक्तं निवेदितुं तच्च ध्यानमार्गचतुष्टयम् ॥ २३२ प्रपश्चितचतुर्गात्रः पवित्रितजगत्रयः । व्याख्याक्षणे प्रभुः श्रीमान् धर्मनाथस्तदाशुभत् ॥ २३३
चतुर्भिः कलापकम् ॥ जगतीत्रितयैश्वर्यसूचकं भुवनप्रभोः। छत्रत्रयं सुरश्चके वक्रेतरमतिः स्वयम् ॥ २३४ ६१७) एतस्यां समवसृतौ विभावसुदिशि क्रमात् ।।
प्रविश्य पूर्वद्वारेण दत्त्वा तिस्रःप्रदक्षिणाः॥२३५
99
9) शालिभलिकाः. 12) कपिशीर्षकं. 16) B राजतश्रीजिनं. 21) B दशमानागरु. 24) B याम्यद्वारि. 25) Br चित्तोवृत्तेन, ०°वपरद्वारि. 26) On दोषन्न P has a marginal gloss like this : दृष्टयादिदोषनिवारको नीलिकाहस्तकाविव । 28) Pपंचाशतीमितं. 29) सांक्षिपीठ. 37) P चतुर्भिः कु०. 38) P जगती विनयैश्वर्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org