________________
-III. 16 : Verse 2001 कुवलयमालाकथा ३
* 89 एनां कथामवितथा विनयप्रधानां सम्यग निधाय हृदि मन्त्रिमुनीश्वरस्य । यूयं यतध्वमधुना विनये निकायं यस्मादयं दिशति निर्वृतिशर्मलक्ष्मीम् ॥ २००
। इति विनये विनीतस्य कथा । ६१५) अत्रान्तरे चण्डसोमप्रमुखैः पञ्चभिर्मुनिभिर्विशप्तम् । 'यद्भगवानाज्ञापयति तत्सर्वमपि प्रपत्स्यामहे । यत् पुनर्दुश्चरित्रं तच्छल्यमिव हृदये प्रतिभाति । ततो भगवता श्रीधर्मनन्दनेन समादिष्टम् । 6 एतत् कदापि चेतसि न चिन्तनीयं यत्किलास्माभिः पापकर्म समाचरितम् । स केवलं पापकर्मा यः 6 पश्चात्तापपरोन भवेत्।' इति श्रुत्वा भूपतिर्मनसैव श्रीधर्मनन्दनाचार्य प्रणिपत्योद्यानान्निर्गत्य विद्युद्धत्क्षिप्तकरणेन प्राकारमुल्लड्य वासवेश्म प्रविवेश, निर्विष्णः शयने सुष्वाप च । साधवो ऽपि स्वाध्याय9 दत्तावधानाः कृतावश्यकाः क्षणं निद्रामुपलभ्य प्राभातिककालग्रहणप्रवणा बभूवुः । अत्रावसरे ऽरुणप्र-9 भापाटलिते गगनतले क्रमेण विरोचने पूर्वाचलचूलावलम्बिनि प्राभातिकतूर्यारवाडम्बरं बन्दिजनमुखवर्णितं प्रभातावसरं च समाकर्ण्य निद्राघूर्णितताम्रनयनयुगलः पृथ्वीपालः शयनीयादुत्तस्थौ । ततः स 12 कृतावश्यककर्मा भूमिवासवः प्रभातकृत्यं विधाय च सचिववासवसमेतश्चतुरङ्गबलकलितः शक्र इव 12 चतुर्दन्तं कुञ्जरमारुह्योद्यानं समागम्य भगवन्तं श्रीधर्मनन्दनविभुं साधूश्च प्रणनाम । ततो भूपतिना जल्पितम् । 'भगवन् , सर्वथैव पुत्रमित्रकलत्रादिममत्वं त्यक्तुं न क्षमः, परं गृहस्थावस्थस्यैव मम किंचि15 संसारसागरतरण्डकं देहि ।' भगवता निवेदितम् । 'यद्येवं तावदेतानि पश्चाणुव्रतानि त्रीणि गुणवतानि 15
चत्वारि शिक्षावतानीति सम्यक्त्वमूलं द्वादशविधं श्रावकधर्म प्रतिपालय' इति । तेन नरेश्वरेण 'यदाज्ञापयति प्रभुः' इति वदता सम्यक्त्वमूलानि द्वादशवतान्यङ्गीकृतानि । ततः सचिववासवःसमुवाच । 18'भगवन् , किमपि भवतां पूर्ववृत्तान्तं वयं न जानीमः।' भगवता जल्पितम् । 'अयमेव कथयिष्यति । 18
अस्माकं सूत्रपौरुषीव्यतिक्रमो भवति । अद्य तावदस्माभिर्विहारः कार्य एव।' एतदाकर्ण्य भूपतिर्वासव
सचिवान्वितो भगवच्चरणारविन्दयुगलमभिनम्य निजधवलधाम समुपाजगाम । भगवान् सूत्रपौरुषीं 21 निर्माय प्रधानेषु क्षेत्रेषु विहाराय प्रचचाल । ते ऽपिचण्डसोमप्रमुखाः स्तोकेनापि कालेनाधीतशास्त्रार्था 21 द्विविधशिक्षाविचक्षणा जज्ञिरे । तेषां चैकदिवससमवसृतिप्रवजितानां महान् धर्मानुरागो मिथः
समजनि । अन्यदा तेषां पञ्चानामपि परस्परं संलापः समभूत्। 'भो, दुर्लभो जिनप्रणीतो धर्मः कथं 24 पुनरन्यभवे प्राप्यत इति, तावत्सर्वथा किमत्राचरणीयम्'। इति भणित्वा परस्परं तैः पञ्चभिरप्यग्रेत-24
नभवोपरि प्रतिवोधसंकेतश्चके । एवं च तेषां मुनीनां सिद्धान्ताभ्यासलालसानां कालो व्यतिक्रमति । किंतु चण्डसोमः स्वभावेन कोपनो मायादित्यो ऽपि मनाए मायावी वर्तते । अपरे पुनः संयमिनः 27 प्रतिभन्नदुर्जयकषायप्रसराः प्रव्रज्यामनुपालयन्तः सन्ति । कालेन च स लोभदेवो निजमायुः प्रपाल्य 27 कृतसंलेखनादिविधिनिदर्शनचारित्रतपोविहिताराधनः पूर्वबद्धदेवायुर्विपद्य सद्यो ऽनवद्यलक्ष्मीः सौधर्मदेवलोके पद्मविमाने समयेनकेन देवत्वमशिश्रियत् । स च पद्मप्रभनामा तत्र त्रिदशः स्वैरं 30 चिक्रीड । एवं मानभटो ऽपि स्वायुपि क्षयमीयुषि संसारलतालवित्री सुखसंपदा धरित्री पञ्चपरमेष्ठि- 30 नमस्कृतिं स्मरस्तेनैव क्रमेण तस्मिन्नव विमाने ऽनेकयोजनविस्तृते पद्मसारनामेति देवः समुदपद्यत । एवं मायादित्यचण्डसोममोहदत्तात्रयो ऽपि कृतचतुर्विधाहारपरीहाराः एञ्चपरमेष्टिनमस्कारपरायणा 33 आराधनविधानाबद्धचेतसश्चतुःशरणशरणाः परिहृताष्टादशपापस्थाना यथासंयमविधिना प्राणितान्ते 33 यथाक्रमेण पद्मवर-पद्मचन्द्र-पद्मकेसराभिधानास्तस्मिन्नव विमाने सुमनसः समभवन् । तत एवं तेषां पद्मविमाने समुत्पन्नानां समविभवपरिवारबलप्रभावपौरुषायषामन्योन्यस्नेहलालितमनसां मिथः 36 कृतसंकेतानां कालो व्यतिक्रामति ।
36 १६) अत्रान्तरे सुरसेनापतिताडितघण्टानिनादे समुच्छलिते सहसैव तैर्वृन्दारकै 'किमिति घण्टानादः।' इति परिजनोऽप्रच्छि । ततः प्रतीहारो व्यजिज्ञपत् । 'देव, जम्बूद्वीपे भरतक्षेत्रे मध्यमखण्डे 39 श्रीमतो धर्मतीर्थकृतः समुत्पन्नविमलकेवलज्ञानभ्य समवस्तौ त्रिदशवृन्दसहितेन सुरेश्वरेण गन्तव्य- 39 मस्ति । तदा तदाकर्ण्य तैः सुरैस्तत्रस्थैरेव भक्तिभरावनतोत्तमाङ्कः श्रीधर्मनाथस्य भगवतः प्रणतिश्चके।
1) B सम्यग् विधाय. 3) PB om. इति. 10) " पाटलिगगनतले. 13) 'योद्यानमागम्य. 14) P कलादिभित्रं. 15) 0 तरण्डं P तरवं. 20) PR'चरणयुगल. 21)। धीतशास्त्रा. 24) ० प्रापयिष्यते इति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org