________________
438
रत्नप्रभसूरिविरचिता [III. F 13 : Verse 1691 चतुर्दशः, निद्रा-स्वाप इति पञ्चदशः, अविरतिः-अप्रत्याख्यानमिति षोडशः, रागः-सुखामिक्षस्य सुखानु-1
स्मृतिपूर्वदुःखे तत्साधने ऽप्यभिमते विषये गर्धत इति सप्तदशः, द्वेषः-दुःखाभिशस्य दुःखानुस्मृति3 पूर्वदुःखे तत्साधने वा क्रोध इत्यष्टादशः, इत्यष्टादशदोषास्तेषामृषभादीनामहतां न भवन्तीति । अतीता-3 नागतवर्तमानलक्षणं कालत्रयम् । धर्मास्तिकायोऽधर्मास्तिकायः पुद्गलास्तिकायो जीवास्तिकाय आकाशा
स्तिकाय पते पञ्चास्तिकायाः। एतत्सर्वमपि श्रीजैनशासनरहस्यं विवेकिना परिज्ञेयम् । 6 १४) विनीतो देशनामेनां श्रुत्वा तत्त्वानुगामिनीम्। .
___नमस्कृत्य गुरुन् गेहं गुणग्रामगुरुनगात् ॥ १६९ एवं स नित्यमभ्येति हित्वा व्यापारमात्मनः। धर्मामृतं पिबत्येष तृषाक्रान्त इव स्वयम् ॥ १७० 9 सोऽन्यदा चलितान् शात्वा प्रभून विनयतोऽवदत्। जनकोऽस्त्वत्र मे येन प्रीतिरुत्पद्यते ऽमुतः ॥१७१७
ततस्ते सूरयो ऽघोचन शात्वा मानेन तत्त्वतः । नायं ते जनको मन्त्रिन् किंतु ते पोषकः पिता ॥ १७२
विनीतः प्राह निर्माय निर्मायः वं शिरोनतम् । कस्तर्हि ते ततःप्रोचुः सूरयस्तत्त्वकोविदाः ॥ १७३ 12 पिता कर्मकरो वृद्धो माता कर्मकरी च ते । युवा च कर्मकृद्भातेत्यवगच्छ कुटुम्बकम् ॥ १७४ 12
अन्यथाभाषिणो नामी निश्चित्येति प्रणम्य तान् । स जगाम निजं धाम बाष्पाविलविलोचनः॥१७५
मषीमलिनवस्त्राया धूमध्यामलचक्षुषः । कौतुकात्पश्यति जने स किङ्काः पदे ऽपतत् ॥ १७६ 15 त्वमत्रस्थापि न शाता हतकेन मया हहा । मातः सिद्धिरिवेदानीं गुरुभिः कथितासि मे ॥ १७७
त्वयाई पुत्रवन्नित्यमजानत्यापि लालितः । कृतघ्नेन मया कर्मकृत्वे हासि नियोजिता ॥ १७८ दुर्भिक्षे पोषितं हा धिक पिक्येव त्वामशक्तया। पापयासि मया मार्गे त्यक्तो धिग्मां कुमातरम् ॥ १७९ लब्धपक्षःस्वभाग्येन वचोमिरमृतोपमैः । पिकवत्प्रीणयन् लोकं परां श्रियमशिश्रियः ॥१८० 18 पितुभ्रोतुश्च चलनी नमस्यन् विनयादयम् । विनीतो वक्षसा ताभ्यामाश्लिष्टः प्राप संमदम् ॥ १८१
वक्रेतरमतिश्चक्रे सञ्चके प्रथमस्ततः। सर्वत्राधिकृतानेतान् विनीतः स्वनिकेतने ॥ १८२ 21 यथोचितां वितन्वानो ऽन्येषामप्येष माननाम् । सुवचोभिः क्रियाभिश्च सर्वत्र प्रथितोऽभवत्॥१८३ 21
श्रीमजैनपदाम्भोजे भजतश्चश्वरीकताम् । कदाचनास्य न स्वान्ते क्रूरत्वं लभते स्थितिम् ॥ १८४
प्रवेष्टुं मानसे यस्य शमसारिराजिते । न क्षमाः प्राणभीत्येव कषायाः पन्नगा इव ॥ १८५ 24 सर्वदा प्राज्यराज्यश्रीचिन्ताचान्तमना अपि । गार्हस्थ्ये वर्तमानो ऽपि सदाचार ततान यः॥१५ 24 __ कदापि श्रमणस्थाने वन्दनार्थ स यातवान् । मुनिमेकमतिग्लानं वीक्ष्य श्रद्धोद्रो ऽब्रवीत् ॥१८७
औषधं मदहे सम्यगस्ति रोगनिवर्तकम् । प्रासुकं चेति साधुभ्यामानाययत सत्वरम् ॥ १८८ 27 इत्युक्त्वा स ययौ गेहे साधुभ्यां सह धीसखः। तस्थतुस्तौ बहिः साधू स तु वेश्मान्तराविशत्॥१८९ 27 अथ च।
श्रेष्ठिकन्यामुना कापि वृतास्ति गुणशालिनी । दत्तो मौहूर्त्तिकैः सैव दिवसस्तद्विवाहने ॥ १९० तद्विहस्ततया मन्त्री विसस्मार तदौषधम् । किंचित्तत्र मुनी स्थित्वा जग्मतुर्निजमाश्रयम् ॥ १९१ 30 पाणिग्रहणसामग्री समग्रामप्यकारयत् । लग्नक्षणस्य प्राप्तौ स सस्मार च तदौषधम् ॥ १९२ स विधायोत्तरं तत्र किंचिन्मित्रेण संगतः। पश्चात्तापकृदादायौषधं वसतिमागमत् ॥ १९३ रोगातोंऽपि मुनिग्लानो विदधे नान्यदौषधम् । ततः कष्टमुपारुढो बभूवातीव निस्सहः ॥ १९४ 33 तं तथाविधमालोक्य विनीतः साश्रुलोचनः आत्मानमात्मना निन्दन् पतितस्तस्य पादयोः॥ १९५ त्रिधा क्षमयतस्तस्य विनीतस्य च तं मुनिम् । समलङ्कतवीवाहोचितमण्डनशालिनः॥ १९६ ध्यायतो भावनां तस्य भविनां भवनाशिनीम् । केवलशानमुत्पेदे घातिकर्मक्षयात् क्षणात् ॥ १९७ 36 शानेन तेन विदितेन समुजवलेन संपश्यतस्त्रिजगतीजनतामनन्ताम् । चारित्रचिह्नमथ तस्य मुनीश्वरस्य क्षिप्रं समर्पितवती ननु जैनदेवी ॥ १९८ नारी नितम्बजघनस्तनभूरिभारां हित्वा भवोदधिनिमज्जनहेतुमेताम् । तत्रैव लग्नसमये प्रवरे वराङ्गीं व्यूहे तपस्विषु वरः स चरित्रलक्ष्मीम् ॥ १९९
2) B सुखे for दुःखे. 6) P धर्मास्तिकायाः। एतत्सर्वमपि etc. 11) P निर्माय निमेयि स्व ० निर्माय (यः) निर्माय स्वं, १ मतः for ततः. 15) 0 सिद्धिरेवेदानी. 16) B has an additional verse (after नियोजिता) like this-इति सामे [सास] बदतास्मिन् संजातप्रश्न [-स्न वाथ सा [1]चिरात् ज्ञातासि वत्सत्वमित्युक्त्वा दत्तवक्षसा ॥. 34) B साश्रलोचनः. 36) B भवनाशनी.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org