________________
न तुरङ्गान् विक्रीयाजाणश्रष्टिनो रुद्राभिधानावतापतिरिव विमोहया
*22
रक्षप्रमसुरिविरचिता
[II. 625 : Verse 1171 ततस्तस्य तारुण्यपुण्यावयवस्य मानसमतीव लोभाभिभूतमभूत् । अन्यदा द्रव्योपार्जनप्रगुणितचित्तो 1
गुरुजनमनुशाप्य लोभदेवस्तुरङ्गानुत्तुङ्गान् सजीकृत्य वाहनानि च स्वीकृत्य पाथेयं संगृह्य मित्रवर्गमा 3 पृच्छय तिथिकरणनक्षत्रपवित्रे मुहूते चन्द्रबले बरलग्ने स्वामिना वीक्षिते स्नानं विधाय देवतार्चनं निर्माय 3 च वहन्नाडिकादत्तपदः स्वजनेनानुगम्यमानः प्रमुदितवदनो दक्षिणाशां प्रति प्रचलितः। जनकेनोक्तम् । 'वत्स, तवाधीतसर्वशास्त्रस्य माणिक्यस्य घटनमिव भारत्याः पाठनमिव मौक्तिकानामुत्तेजनमिव सर्वथा 6 शिक्षावचः कीदर, तथापि नेहमोहितचेतसा मया त्वां प्रति किंचिदुच्यते । 'पुत्र, दवीयो देशान्तरं, 6 विषमा मार्गाः, कुटिलहृदया लोकाः, वञ्चनप्रगुणाः कामिन्यः, घनतरा दुर्जनाः, विरलाः सजनाः, दुष्परिपाल्यं ऋयाणकम् , दुर्धरं यौवनम्, विषमा कार्यगतिः, तावत्वया सर्वथैव क्वचन पण्डितेन, वचन 9मूर्खण, क्वचन दयालुना, वचन निष्कृपेण, क्वचन सूरेण, वचन कातरेण मार्गों निर्गमनीयः ।' इति 9 शिक्षावचोभिः सुतममन्दानन्दसंदोहमुग्धदुग्धाब्धिमध्यस्थं परिगलन्नयनयुगलजलं पिता विदधे ।
लोभदेवः कतिपयैरप्यनवरतप्रयाणकैदक्षिणापथमाश्रित्य कियतापि कालेन सोपारकपत्तनं प्राप्तवान् । 12 यत्रोत्पातः पतङ्गेषु वक्रता भ्रषु योषिताम् । प्रकम्पश्च पताकानां जनानां न कदाचन ॥११७ 12
प्रामाणिकेषु संवादः कन्यासु करपीडनम् । मथनं च दधिष्वेव भङ्गः पूगीफलेषु च ॥ ११८ सम्यग्भवोच्छित्तिविधौ नितान्तं सद्धर्मकर्माहितचेतसो ऽपि।
शिवार्थिनो यत्र जना यतन्ते कुर्मः स्तुति कां नगरस्य तस्य ॥११९ यत्र विश्वोल्लासियशोद्यापरिगतो जनार्दन इव जनः सर्वमङ्गलोपचारचारश्च, पार्वतीपतिरिव विमोहयति ।
संगतो गणिकागणो धार्मिकलोकश्च । तत्र जीर्णश्रेष्ठिनो रुद्राभिधानस्य गुणश्रेणिनिधानस्य वेश्मनि वसता 18कियतापि कालेन तुरङ्गान् विक्रीयाधिकं धनमुपायं लोभदेवेन स्वगृहागमनोत्सुकमनसा बभूवे । तत्रा-18
यमाचारः। 'ये केचिद्वणिजस्तत्रत्या देशान्तरागता वा सायं ते सर्वे मिलित्या परस्परप्रीतिपूर्वकं क्रयविक्रयादिकेन किमुपार्जितम् , किं किं पण्यमद्य देशान्तरादागतम्' इति वार्ता वितन्वते । गन्धताम्बूलमाल्यादि परस्परं प्रयच्छन्ति ।
21 ६२५) अन्यदा सलोभदेवस्तत्रैवोपविष्टस्तदा केनापि 'क्वापि देशान्तरे किमप्यल्पमूल्येन वस्तुनानल्पमूल्यं वस्तु प्राप्यते' इत्याचचक्षे । अथ केनचिद्वणिजा गोष्टयन्तःस्थेन प्रोक्तम् । 'यदहं दुस्तरं वारिधिमु24 लय रत्नद्वीपमगमम् । तत्र मया पिचुमन्दपत्राणि दत्त्वा रत्नानि स्वीचक्रिरे । एवं विक्रयक्रर्य विरचय्य 24 ध्यावृत्य क्षेमतयात्राहमागतः।' इमां वार्ता श्रुत्वा लोभतत्त्वाहितमनसा लोभदेवेन स्ववेश्मगमनाभिप्राय विमुच्य पुनर्नवीनद्रविणार्जनहेतवे चेतश्चके । ततो निजवेश्मागत्य निर्मितस्नानभोजनो यथाश्रुतं लोभदेवः अश्रेष्ठिरुद्रस्य पुरः कथयामास । 'तात रुद्र, तत्र रत्नद्वीपे गतानां महाँल्लाभ उत्पद्यते, यत्र निम्बपत्र रतान्ये-27 तानि प्राप्यन्ते । ततः किं मया न तत्र समुद्यमः क्रियते।' रुद्रष्टिनादिष्टम् 'वत्स, यावन्मात्री मनोरथो ऽर्थकामयोर्विधीयते तावन्मात्र एवं प्रसरति, 'लाभाल्लोभो हि वर्धते' इति न्यायात् । अग्रेतनमर्थसंचयं 30 स्वीकृत्य स्वदेशं गच्छ । किं च बहुलापाय जलधेरुल्लञ्चनम् । ततो ऽधिकलोमे मनो मा विधेहि । एतदेव 30 द्रविणं यथेच्छं भुख। दीनादीनां दानं ददस्व । दुर्गतं जातिसंबद्धं च समुद्धर । सर्वथैव धनस्य फलं
गृहाण । निगृहाण च समधिकद्रव्यार्जनलक्षणं लोभराक्षसम् ।' एतदाकर्ण्य लोभदेवेन जल्पितम्। 33 'यः कार्ये दुर्गमे धीरः कार्यारम्भ न मुञ्चति । वक्षो ऽभिसारिकेव श्रीस्तस्य संश्रयते मुदा ॥ १२० 33
तथा तात, प्रारब्धकार्यनिर्वाहिमनसा पुंसा भवितव्यम् । त्वमपि मया सह रत्नद्वीपमागच्छ ।' श्रेष्ठिना भणितं 'ममागमनं न भावि केवलं त्वमेव व्रज'। लोभदेवेनोक्तम् 'कथं भवतस्तत्र गमनं न संपद्यते 36 तन्निवेदया' रुद्र श्रेष्ठी प्रोवाच । 'यदहं सप्तकृत्वः समुद्रान्तर्यानपात्रेण प्रविष्टः, परं सप्तकृत्वोऽपि मम वाहनं 36 भग्नम् , तावदहं नार्थस्यैतस्य भाजनम् ।' लोभदेवेन जल्पितम्। 'धर्माशोरपि प्रतिदिनमुदयाधिरोहप्रताप
पतनानि किं पुनर्नान्यस्य इति परिभाव्य सर्वथैव कमलायाः समुपार्जने सावधानमनसा भाव्यम् । त्वया 39 रत्नद्वीपे मया सह समागन्तव्यमेव ।' श्रेष्ठी जगाद पुनः । 'वत्स, त्वां प्रति सांप्रतं किंचिद्वदामि, अत्र 39 यानपात्रे त्वमेव ऋयाणकनेता, अहं पुनर्मन्दभाग्यः' इति । ततस्तेन तदेवाङ्गीकृतम्।।
4)P दिशि for प्रति. 8)0 अतस्त्वया for तावत्वयः- 9) मर्पण for भूईण. 15) Bhas a marginal gloss 00 शिवार्थिनो etc. thus: विरोधोयं शिवार्थिन ईश्वरभक्तास्ते भवस्येश्वरस्योच्छेदविधौ कथं यत्नं कुर्वति विरोध (जंग) श्वेत्य शिवार्थिनो मोक्षार्थिनः । संसारोच्छेदविधी. 17)R bas a marginal gloss (on विमोहयति) thus : मोहमूद कारयति पक्षे विगतमोह करोति । संगमात् पक्षे संगतो मिलितः। 18) स्वगृहगमनों'. 19) Pतत्राधमाचा, देशांतरानागता, B देशांतरादागता, Pnom. सर्वे, ० परस्परं. 23) । यदसि दुस्तरवारिधि B यदस्मि दुत्तरवारिधि, P एनं विक्रयं यं. 26) स्ववेश्मगमनं विमुच्य, ० ततो विजोत्तारके समागत्य निर्मित. 28) Padds न before समुनमः.34) सम for सह.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org